________________
पञ्चमो लम्बः ।
९३
-रविकारा 'कथयन्ति निकामं कामो नाम कश्चिदस्तीति । किमयं सः' इति । तदवस्थालोकनेन लोकपालभूभुजि पुनरपि गरलसद्भावशङ्काभयालिङ्गिते भृशमिङ्गितज्ञः कुमारोऽपि कामतन्द्रालुमन्त्रयन्निवानङ्गातुरमात्मानमपि तदङ्गस्पर्शन चरितार्थीकुर्वन्समानयोगक्षेमतां लेभे । मुमुचे सा च मोचोरुस्तदीयचतुरकरतलस्पर्शनमनुमहिम्ना प्रद्युम्नगरलवेगात् । उदस्थाच तल्पादाकुलिताकल्पा । बुबुधे च सविधगतान्विविधौषधहस्तान्समस्तानपि पुरुषान् । तिरोदधे च तिर्यग्वलितमुखी पर्यङ्कादवरुह्य ह्रीयन्त्रणेनाकृष्टा संनिकृष्टचेटीपेटकस्य मध्ये । तावता तत्परित्राणविहस्तो जनः समस्तोऽप्युन्मस्तकहर्षमूर्तिः कर्तव्यान्धो गन्धर्वदत्तादयितं दत्ताञ्जलिरभिप्रणम्य 'प्रयाणाभिमुखान्प्राणान्प्रतिपादयन्प्राणनाथोऽप्ययमेवास्याः' इति स्वयमेवाचीकथत् । लोकपालोऽपि 'लोकोत्तम , लोकोत्तरोऽयमुपकारः। किमिह तवाहं व्याहरामि । मम राज्यं मम भोज्यं मम गात्रं मम मित्रं मम प्राणा मम त्राणं च त्वदधीनं' इत्यभिदधानः , प्राप्तमनःप्रसादमेनं प्रासादे क्वचित्प्रचुरोपचारमवस्थापयन् , अपास्तसमस्तजनं मन्त्रागारं मन्त्रिभिरधिरुह्य मन्त्रयामास–'अयि मान्याः , कन्यायाः प्रकृतोऽयमुपद्रवः सुकृतोदयादुपाशमत् । अतः परं परोऽयमपारो ह्यस्याः प्रशस्तवरान्वेषणप्रभवः । ततः कथमनारोपितदोषं कथंकथमपि कमपि जामातरमुपलभ्य तमपि दुस्तरं बाढं निस्तरामः । कुमारोऽयमनवद्याकृतिरविद्यमानप्रत्युपकारमुपाकरोत् । अनुरूपश्च रूपयौवनसुगुणैः । किंच, तां मञ्जुभाषिणी स्वहस्तेनाप्यस्पृशत् । या चास्माकमयमविदितगोत्रविशेषो वैदेशिक इति जाता संशीतिः सापि सांप्रतं निरस्ता , यतस्तदीयो वृत्तान्तस्तदनुभावकण्ठोक्त्यायमवगतः । एवंगते सति यदत्र प्राप्त प्राप्तरूपा निरूपयन्तु भवन्तः इति । तन्निशम्य नीतिविदः सचिवाश्च ‘देव किमत्र विचारेण । सर्वथा स एव योग्यः कुमारः' इत्युदीरयामासुः ।