________________
गद्यचिन्तामणौ
अथैवमात्माभिमतममात्यानुमतं च वधूवरसंगमं संपादयितुमुलोकसंविधाविधायिनि पल्लवदेशभूभुजि, परश्वः खलु भविता पाणिपीडनमहोत्सव इति जनवादे विजृम्भमाणे, विजृम्भितमन्मथव्यथः कुमारोऽप्येकामपि त्रियामां सहस्रयामां सर्वथा निश्चिन्वन्पश्चिमे यामे यामिनीस्वामिन्यपि स्वामिरहःसंभोगसमुद्रीक्षणत्रपयेव तिरोदधति , रतिव्यतिकरविशीर्णवधूवरचिकुरविच्छरितसुमनसीव विच्छायतामुपगच्छत्युडुनिकरे , निर्दयविमर्दाश्यानमिथुनाङ्गसंगतकुङ्कुमपङ्कपराग इव प्रसरति प्रसवरजसि , पु
पवतीः स्पृष्ट्वा लताः पुनः स्पर्शभीत्येव शनैश्चरति समवगाढसरसि मरुति , सद्योविकचन्मणीचकनिचयमनोहारिणि महीरुहनिकरे निरन्तरनिस्यन्दिमकरन्दधारां दम्पतिघटनार्थमम्बुधारामिवावर्जयति , स्फुटितकुसुमषण्डोद्भासिनि दीपमण्डितदीपदण्ड इव दृश्यमाने सनीडगतचम्पकविटपिनि, अतिस्फारतया बहिःस्फुरज्जायापतिराग इवोन्मिषत्युषोरागे, भृङ्गावलिप्रकणिते मङ्गलपाठकवचसीव गृह्यमाणे, गृहोद्यानमण्डनमाधवीलतामण्डपे. कुसुमकोदण्डेन प्रदत्तां तां मत्तकाशिनी गम्धर्वदत्तापतिर्गन्धर्वविवाहप्रक्रमेण रागाग्निसाक्षिकं परिणीय पुनर्गुणवति लग्ने लोकपालेन वितीर्णी विधिवदुपायच्छत ।
इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ
पद्मालम्भो नाम पञ्चमो लम्बः ॥
-:(*):