________________
षष्ठो लम्बः ।
षष्ठो लम्बः ।
अथ तां नववधूमवधूतत्रपां पवित्रकुमारः शनैःशनैः परिकल्पयन्, 'पङ्कजत्वेन द्विजपतिद्वषेण मधुपसंपर्केण च निकृष्टं निर्दिष्टदोषसहित्यादवधीरयतः पमं तव मुखपद्मस्य पद्मसदृशतां पद्मानने , कविवर्त्मनि स्थिताः कथं कथयन्ति' इति मिथः कथयन् , नट इवावस्थानुगुणवचसि विट इव संभोगचातुर्ये वश्यमन्त्र इव वशीकरणविधौ शिष्य इवेच्छानुगुणवर्तने चक्रवाक इव विरहासहिष्णुत्वे भवन् , तत्तद्गुणेषु स्वयमपि तथा भवन्ती कामिनी कामतन्त्रज्ञो यथाकाममन्वभवत् । अनैषीच्च तस्मिनेव राजसमन्यम्लानपाटलोत्पलदामपरिमलोद्गारिकबरीबन्धया विरचितशिरीषकलिकावतंसया दिवसकरसंतापसंत्रासादतिशिशिरदेशनिवेशितेनेव शशाङ्कातपेन घनसारसुरभिणा हिमजललुलितेनानतिविरलेन चन्दनविलेपनेन पाण्डुरितशरीरया , सलिलस्यन्दिबिसलताहारव्यतिकरितमुक्तासरतरङ्गितस्तनतटया परिहृतकुङ्कुममाणिक्यभूषणया त्रिगुणतिरस्करिणीस्थगितवातायनदूरान्तरितद्युमणिकिरणदर्शनया पल्लवितसायंतनसलिलकेलि. कौतुकया निर्मोकपरिलघुपरिधानया धारागृहनिर्यद्वारिधारारवश्रवणनिवृतया चन्दनशिशिरशिलापट्टसंविष्टया प्रालेयशीकरासारवाहिन्या यामिन्येव हेमन्तस्य , मौक्तिकराजिततनुलतया वेण्येव ताम्रपर्णाः, शीतलचन्दनच्छायाभृता मेखलयेव मलयशैलस्य , फेनपिण्डपाण्डुराम्बरया वीच्येव पयःपयोधेः , पद्मया तया समं स्फुटितपाटलकुसुमापीडपटुपरिमल