SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९६ गद्यचिन्तामण " विसरवासितरोदोविवराणि प्रसरदूष्मलतरणिकिरणपरामर्शमरित पक्ष्माणि पटुतरातपकृत कोटर पुटपाकमन्दप्राणविष्किराणि स्फीतफलस्तबक भूरिभारनम्रशाखाम्रवणानि चूडारत्नसंशयितवनवैश्वानरबिलेशयभुजङ्गानि पत्रलानूपद्रुमषण्ड पिण्डित रोमन्थमन्थरवदनगोधनानि दावदहनदाहविद्राणसारङ्गसङ्घलङ्घितमरुन्मार्गाणि पानीयशालापन्नपथिकजनवाञ्छमानसायाह्ना शुष्क सरसीविलोकननिराशशोकान्धसिन्धुरारब्धकरास्फोटानि रिक्तीकृतमहामहीधरनिर्झरस्रोतः सिरासंतानानि संज्वलितपतङ्गग्रावपावकप्रभापटललीढजाङ्गलद्रुमाणि, घोरतपांसीव मुक्ताहारशरीराणि, राजहृदयानीव - जोधिकद्वेषोत्पादीनि अपत्यानीव सदाकाङ्क्षित्तपयांसि पतितकर्माणीवाधस्तलावरोहणकारीणि, नाक स्त्रीमनांसीव मरुदौत्सुक्यविधायीनि, अतिरूक्षाणि ग्रैष्मकाणि कानिचिदहानि जीवंधरः । " अथैवं मनोरथदुरासदं सततं तया सारङ्गदृशा समं शमनुभवन्नपि विषयेष्वसक्ततामात्मनो विवरीतुमिव विजयासूनुः, विषयान्तरमन्तर्हितएव गन्तुमनाः समजनि । तावतास्य तिरोधाय जिगमिषोरनुकूलतां चिकीर्षुरिवावसित दिवसव्यापारशेषः पूषा निकषास्तशैलमलम्बत । आपतयालु निशानिशाचरीनिशातशूल शिखासमुत्खातं वासरस्य हृदयमिव स्थपुटितप्रस्थप्रस्थानविह्वलवाहनिवहविहतस्यन्दनविस्रस्तमस्तगिरिगैरिकपङ्कचयखचितं रथाङ्गमिव च पातङ्गमङ्गमदृश्यत । ततस्तेजोनिधिरपि विनि-वारितदोषोऽपि वारुणीसङ्गात्किमपरं रविरधः पपात । पद्मिनीरज: स : स्पृष्टमम्बरमपहाय मज्जत्यब्जिनीभुजङ्गे जलधिजलवेलान्ते संततलाक्षिक वनकालक्ष्मीं बभार संध्या। ततश्च सवेगपतङ्गपयोधिपातपाटितशुक्तिपुटमुक्तोत्थितमुक्तोत्करा इव निर्दयमधुकरमर्दननिपतदनल्पकल्पतरुकुसुमप्रकरा व च तारकाश्चकाशिरे । तदनु चागाधरसातलका सारगर्भपीतवासरतापसुखसमुत्तरत्समर्वीतवाहनवाहवैरिकाय कार्ण्यकञ्चुकितानीव, अहरवसानवि -
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy