SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ षष्ठो लम्बः । हारमण्डनप्रवृत्तवलरिपुपुरपुरंध्रीजातयातयामतावधूतावतंसनीलकुवलयप्र - भानुविद्धानीव समददिक्करिकुलकर्णतालताडनाम्रेडनभयचकित विद्वाणषट्चरणचक्रचञ्चदचिश्चचमे चकितानीत्र सर्वतः शर्वरीकेशपाशदेशीयानि तमांसि मांसलिमानमभजन्त । क्रमेण चाभ्यागताभिमतरमण नीलकञ्चुककदाशाकदर्थिताभिरनुपदं प्रसारितपाणिभिरितस्ततो गृह्यमाणे स्वाभ्याशेषु स्वैरिणीभिः, अतिबहलपङ्कपटलशङ्किभिरावर्जितपार्थैरनिभृतं विलुठितुमूरीक्रियमाणे विपिनकुहरेषु वराहनिवहैः, अकाण्डजलदमण्डलभ्रमसंभ्रमसंभृतपुनःपलायनचिन्तैरुत्क्षेपचटुलपक्षसंपुटैः सभयमभिवीक्ष्यमाणे सरः सु हंसैः, संरम्भसमुद्धूतसटाच्छटैरुत्पुच्छायमानैः कठोरकालायसपञ्जरधिया विघटयितुं व्यापारितनखकोटिभिः साटोपमुद्दिश्यमाने गिरितटीषु कण्ठीरवैः, तिमिरापीडे जरठतां प्रतिपन्ने, प्राप्ते च निशीथे, निर्दयसंभोगव्यतिकरश्रमेण गाढाश्लिष्टनिद्रां तां बिम्बोष्ठीमतिसंवाय गन्धर्वदत्तापतिरन्तर्वेशिकैरप्यविदित एवान्तःपुरात्पुराच्च निर्गत्य ययौ । अथ पद्मबन्ध पद्मिनीमिव पद्मां परित्यज्य पद्मादयिते प्रयाते, प्रशिथिलितनितान्तस्वापा सा कान्ता कान्तकरपरिरम्भणसं भूष्णुशंभरानुपलम्भेन विजृम्भमाणवेपथुभरादरविवर्तितगात्रा निमीलितनेत्रैव प्रसारितपाणिः परितः पर्यङ्के पतिं व्यचेष्ट । अदृष्ट्वा च तलिमसविधे धवमवधूतावशिष्टनिद्रा द्रुतमुत्थाय शयनगृहमभितः प्रदीपाट्टेषु प्रलम्बमानमणिकनक सुमनोदामनिकामस्थूलशातकुम्भस्तम्भच्छायास्वप्यतुच्छरणरणकविह्वला प्रहृतरपूर्वगाना धात्रीतलचुम्बितलम्बमानशिथिलकेशकलापा कलापिनी नृत्तोद्यता, विद्युदिव मेघावलीवलयिता, वलयरबमुखरितकरपल्लवैः पल्लवयन्तीव परामृशन्ती भुवं भूयः पर्यभ्रमत् । एवं नैकवारं वरदर्शनशङ्कया दरस्तम्भिताक्रन्दप्रसङ्गा स्वाङ्गच्छायामपि तदङ्गच्छायां संदिहाना भूत्वापि निशान्ते कान्तं यदा नैक्षिष्ट तदा ' हा हतास्मि ' 9
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy