________________
गद्यचिन्तामों
मलवचनामृतनिर्वापितविषादविषानला विलासिनी शरदि सरसीव शनैःशनैः प्रसादं प्रत्यपद्यत । प्रावर्तत च यथापुरमवनिपुरंदरमनुवर्तितुम् । .. अथ कतिपयदिवसापगमे परिणतशरकाण्डपाण्डुना कपोलयोः कान्तिमण्डलेन तुहिनमहसमिव वासवी दिशा शंसति स्म गर्भे गर्भरूपस्य परिणामं हरिणाक्षी । काष्ठाङ्गारकाननदिधक्षया ज्वलिष्यतः सुतप्रतापानलस्य धूमकन्दल इव कालिमा कुचचूचुकयोरदृश्यत । तनयमनसः प्रसाद इव बहिः प्रसृतश्चक्षुषोरलक्ष्यत धवालमा । निखिलजनदौर्गत्यदुःखद्रुहि गतवति गर्भमर्भके बिभ्रतीव भीतिमुदरादतिदूरं दरिद्रता प्राद्रवत् । बुवेव भाविन स्नुषाभावमभवदवनौ पदन्यासपराङ्मुखी । गरिम्णा गर्भे समुपेयुषि दुर्धरतां क्लेशिताधरपल्लवाश्चामरपवना इव दौहृदश्रियः प्रतिक्षणं निःश्वासाः प्रासरन् । निखिलभुवनवास्तव्यानां वस्तूनां भोक्तारमात्मजमावेदयन्तीव विविधरसास्वादलालसा समजनि राज्ञी । परिजनवनिताकरपल्लवात्पादयुगलमाकृष्य पार्थिवमकुटमणिशिलाशयनेषु शाययितुमचकमत कमलाक्षी । अपि भूषणानामुद्वहने क्लाम्यदङ्गयष्टिस्त्रयाणामपि विष्टपानां भारमंसशिखरे निवेशयितुमुदकण्ठत कम्बुकण्ठी।
तदेवमुपचितदौहृदलक्षणामेणाक्षीमालोक्य कदाचिदतनुत नरपतिरन्तश्चिन्ताम् – 'आपन्नसत्त्वेयमावेदयति फलमभ्युदयशंसिनः स्वप्नस्य । किमेवमपरोऽप्यशिवशंसी फलिष्यति । केन वा विनिश्चेतुं पार्यते । भवितव्यता फलतु वा कामम् । का तत्र प्रतिक्रिया । न हि पुराकृतानि पुरुषैः पौरुषेण शक्यन्ते निवारयितुम् । किंतु दुष्कृतपरिपाकभाविना दुर्निवारेण दुःखेन यद्यपि वयमभिभूयेमहि तदपि कुरुकुलनिरन्वयविनाशपरिहाराय परिरक्षणीया प्रयत्नेन पत्नीयमन्तर्वनी' इति । ततश्च विश्रुतविश्वशिल्पकौशलं विश्वकर्माणमिव प्रत्यक्षं तक्षकमाहृय गर्भदोहलजनितकेलीवनविहरणमनोरथां मनोरमां विनोदयितुमभिमतदेशगमनको