________________
प्रथमो लम्बः ।
१९
सृणित भुवमविरत निःश्वसितमरुदूष्ममर्मरितदशनच्छद किसलयं विधुंतुदकबलितमित्र तुहिन किरणबिम्बमन्तर्गतविषादविषवेगश्याममाननमुद्वहन्तीं दवदहनशिखापरामर्शपरिम्लानामित्र वनलतां वनकारीसमुत्पाटितां दिनकरमरीचिपरिचयपचेलिमामिव मृणालिनीं मानिनीं मन्युभरपरवशः पृथ्वीपतिरवतीर्य पर्यङ्कादधारतभुजङ्गपतिभोगसौभाग्येन भुजद्वयेन समुत्क्षिप्य स्वाङ्कमारोपयन्नतित्वरित परिजनोपनीतैर्मलयजमृणालघनसारतुषारप्रमुखैः शिशिरोपचारपरिकरप्रकरैः प्रत्युत्पन्नसंज्ञामकार्षीद्याहाच्चि - “ भीरु, केयमाकस्मिककातरता तरलयति भवतीम् । केन जगति स्वप्नानामवितथफलतान्वभावि । भावि वा वस्तु कथमस्तु प्रतिबद्धम् । पुराकृतसुकृतेतरकर्मपरिपाकपराधीनायां विपदि विषादस्य कोऽवसरः । विषादः किं नु विपदमपनुदति । प्रत्युत विपदामेव भवेभवे प्रबन्धमनुबध्नाति । तदेवमुभयलोकविरोधी विषादः किमित्याद्रियते । यश्च समुपस्थितायां विपदि विषादस्य परिग्रहः सोऽयं चण्डातपचकितस्य दावहुतभुजि पातः । ततो हि कृतधियस्तत्त्वचिन्तया विपदामेव विपदं वितI न्वन्ति । किंचावयोरनन्ताः खल्वतीता भवा: । न तेषु संगतिस्तथैव भाविन्यपि भवप्रबन्धे । ततस्तदन्तरालगतकतिपयदिवसपर्यवसायिनि संगमेऽस्मिन्कस्तवायमाग्रहः । संसृतौ हि वियोगः संयोगिनां नियोगेन भविता । त्वमपि किमेतन्न जानासि । किमवगाहितजिनशासनः कृती जनो विपदि संपदि वा बाह्य इव मोमुह्यते । कः स्यादेवकृते कृतिनामविशेषज्ञाद्विशेषः । किंतु विशेषतस्त्वमशेषदोषहरं भगवन्तमतः परमाराधयेः । कुर्वीथाश्च पात्रदानादिना पवित्रमात्मानम् । किमन्यदात्मनामस्ति शरणम् । अस्ति चेदायुषः शेषः शेषैव जिनपादाम्भोजलब्धा भवाब्धौ भव्यानामुपप्लवमुपशमयेत् । तस्माद्विवेकविधुरजनविषयाद्विषादान्निवर्तयितुमात्मानमर्हसि " इति । ततः प्रियतमवदनतुहिनकिरणमण्डलविनिर्यद