SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १८ गद्यचिन्तामणी सुमसौरभसंभ्रमदलिकुलमुखरितहरिदवकाशमहिमकररथमार्गलङ्घनजङ्घालविटपनिबिडितवियदाभोगमभिनवधनपरिषदभिभावुकपलाशपटलकवाच - तवपुषमरुणकिरणशोणकिसलयप्रसूनदर्शिताकालसंध्यं कमप्यशोकशा - खिनमवालोकिषि । स च क्षणेन क्षोणीरुहः कुलधरणीधर इव कुलिशपतनेन शतधा शकलीकृततनुरपतदवनीपृष्ठे । समुदतिष्ठच्च तस्य तरोर्मूलादकठोरदलपुटलुठितेन लोहितिम्ना लिम्पॅल्लोचनपथमधरितदिवसकरबिम्बेन जाम्बूनदघटितेन किरीटेन शोभितशिखरभागस्तुङ्गविशालविटपकबलितवियदन्तरालः कोऽपि कङ्केलिः । तत्र च प्रालम्बिष्ट प्रथमानपरिमलतरलमधुकरमालं मालाष्टकम् । तथाविधं तमनुभूय स्वप्नवृत्तान्तं प्रवृत्तहर्षविषादा च तत्क्षण एव निद्राममुञ्चम् । आचक्ष्व फलममुष्य" इति । . तदनु नरपतिरवनीरुहपतनदर्शनादकुशलमात्मनि शङ्कमानोऽपि चामीकरकिरीटनिरीक्षणनिवेदितेन तनयलाभेन मुदमुद्रहन्नधिकविकसितवदनतामरससरसीरुहासनविलासिनीचरणनखमणिचन्द्रिकामिव दशनकिरणकन्दली दर्शयन्स चतुरमवोचत्-“देवि , पक्कमद्य नश्चिरविरचितेन जिनपादपङ्केरुहसपर्याप्रबन्धेन । फलन्ति च सकलभुवनमहनीयतपसामवितथवचसामत्रभवतामृषीणामाशिषः । तथाहि—कथयति कनकमकुटः कल्याणि , ते तनयम् । तस्योदयमावेदयति पतितपादपमूलरूढः कठोरेतरः स कङ्केलिः । अमुष्य च वधू : सूचयन्ति ताः पुप्पस्रजः” इति । दयितवचनामृतपरितोषितस्वान्ता सीमन्तिनी 'महीरुहपातः किमभिधत्ते' इति महीक्षितमप्राक्षीत् । 'तदपि किमपि मे निवेदयत्यमङ्गलमवनिरुहपतनम्' इति कथयति जगतीपतावपतदनिलरयहता वनलतेव महीतले महिषी । ततः क्षितितलविलुठितवपुषं विगलदविरलबाष्पजलपूरतरत्तरलतारकदृशं शिथिलितनहनविसृमरकेशम
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy