SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्बः । २१ शलशालिनं कमपि यन्त्रकलापिनं कल्पयति महीक्षिदादिक्षत् । अद्राक्षीच सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेषजननयनहर्षदायिनं शिखिनम् । अदाच्च तस्मै विस्मयमानमना मानवेश्वरो मनोरथपथातिवर्ति कार्तस्वरादिकम् । व्यहरच्च मनोहरेषु विहारोपवनेषु वनितामारोप्य मयूरयन्त्रे नरेन्द्रः । इत्थं गमयति कालं कामसुखसेवारसेन राजनि राजीवदृशश्च क्रमादभिवृद्धे गर्भ निर्भरराज्योपभोगनिष्ठः काष्ठाङ्गारोऽप्याकृतिमिव कृतघ्नतायाः साक्षात्कारयन्नयशःशरीरमिवाकल्पमवस्थापयन्सज्जनसरणिमिव खिलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिव तुच्छतायाः प्रदर्शयन्पृथिवीपतावुचितेतरमुपरचयितुमुपाक्रस्त प्राक्रस्त च प्रतिदिनमेवं चिन्तयितुम् —" विहरदश्वीयखुरपुटविघटितधरणीतलोत्थितधारालरजःपटलघटितरिपुमण्डलोत्पातपांसुवर्षेण समरहर्षलमदवदिभकपोलतटविगलितमदजलदर्शितापरकालिन्दीप्रवाहेण विलसदसिमरीचिजालमेचकितदशदिशामुखेन युद्धोन्मुखसुभटभुजदण्डकुण्डलितकोदण्डविडम्बितपितृपतिवऋकुहरेण भुवनविवरव्यापिना बलेन शशरिरे शत्रवः । आ महेन्द्रमदावलकलभकर्णतालपवनविधुतपादपकुसुमधूलीधूसरितपरिसरवनादुदय - गिरेरा खेलद्वरुणरमणीचरणन्यासमिलदविरलपावकपल्लवितप्रस्तरादस्त - गिरेरा शैलराजदुहितृकरनखेलूनपल्लवभरकृतावनीरुहशिखरोल्लासात्कलासादा निशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितैमर्माणिक्यमहःपल्लवैरर्चयन्ति नश्चरणौ धरणीभुजः । एवं फलितसकलमनोरथस्य सर्वो:पालमौलिविनिवेशितचरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयश:कारणम् । न हि चेतयमाना मानिनः परशासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकलभुवनाधिपत्योपभोगमुखितमपि दुःखयति हि पारतन्त्र्यम् । तत्केनापि व्याजेन व्यापाद्य
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy