________________
२२
गद्यचिन्तामणौ
राजानं व्यपगतपारतन्त्र्यशोकशङ्कनिःशङ्क एव महीं मदेकशासनां विधास्यामि " इति ।
इत्थमनुवर्तमानमनोरथम् , कदाचित्कनकगिरिशिलातलविशालस्य विमलदुकूलवितानविराजिनः प्रलम्बमानकदलिकाकलापस्य काञ्चनशिलास्तम्भशुम्भतो महतो मण्डपस्य मध्यभागनिवेशिनि निष्टप्ताष्टापदनिमितवपुषि विचित्रास्तरणशोभिनि सिंहासने समासीनम्,पृष्ठतः स्थापितेन राजलक्ष्मीनिवासपुण्डरीकपाण्डरेण धवलातपत्रेण तिलकितमूर्धानम् ,उभयतः स्थिताभिरनुक्षणरणितमणिपारिहार्यमुखरबाहुलतिकाभिर्वारवामनयनाभि : सविलासविधूयमानविमलचामरमरुदान्दोलितकुसुमदामसुरभितवक्षःस्थल - म् , मूर्तिमन्तमिव शौर्यगुणम् , विग्रहवन्तमिवावलेपम् , आत्मदेहप्रभाकवचितकाष्ठं काष्ठाङ्गार परिवार्य प्रकटितप्रश्रयाः समन्तादासिषत सामन्ताः ।
अथ तानालोक्य कपटकर्मपटिष्ठः काष्ठाङ्गारः स्वहृदयविपरिवर्तमानार्थसमर्थनचतुरं किमपि वचनमचीकथत् -" किमपि विवक्षतामेव नः क्षीणतामयासिषुरनेके दिवसाः। अद्यापि लज्जमानमिव मानसमन्तराकर्षति रसनाम् । परिवादपविपतनभीतेव गलकुहरान्न निःसरति सरस्वती। पातकपङ्कपतनातङ्कादिव कम्पते कायः । किमेतत्स्वन्तं दुरन्तं वेति स्वान्तं न मुञ्चति चिन्ता । तदपि दैवादेशलङ्घनभयोत्खातशङ्काशङ्कनिर
शेन मनसा समावेद्यते । स्वप्ने केनापि पार्थिवपरिपन्थिना दैवतेन 'निहत्य राजानमात्मानं रक्ष' इति निरनुक्रोशेन समावेद्यते । कात्र प्रतिक्रिया । किं वात्र प्रयुज्यते । यदिहास्माभिर्विधीयेत तदभिधीयताम्" इति पापिष्ठेन काष्ठाङ्गारवचनेन कुपितकण्ठीरवकण्ठनिःसृतेन स्वनेन वनकरिण इव कांदिशीका निष्कृपनिषादनिर्दयाकृष्टिनिष्ठयूतेन चापटङ्कारेण रका इव धृतातङ्काः प्रमादप्रवृत्तेन प्राणिवधेन तपोधना इव सद्यःसं जात