________________
गद्यचिन्तामणौ
निजोपान्तगतां पीडामेव पीडयन्तः परपीडामपि विभजेरन्' इति कारुण्यावर्जितमतिरभिदधे । तिरोदधे च तरणिः । संनिदधे च कोऽपि कूपखण्डः । ततश्चायमतर्कितागतिं तमधिरुह्य कमपि कमनीयोद्देशं द्वीपमविशत् ।
तत्र क्वचिदुपसागरं सिकतिले तले निषण्णः किंचिदिव विषण्णोऽयं पोतवणिग्वरः
'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना ।
___ यस्मादन्यदुपक्रान्तमन्यदापतितं पुनः ॥' इति भावयन्पाकविघटितशुक्तिपुटमुक्तमुक्ताप्रकरं धारासंपातपतितकरकनिकरमिव कलयंश्चलतरङ्गतरङ्गिणीपतितरङ्गपरम्पराविलुठदकठोरकर्कटकावलोकनसकौतुकं कादम्बकदम्बकमप्यालोकयन्कांचन कालकलां गमयांबभूव । बभूव च तत्र परत्रेव गच्छन्नतुच्छतेजा मनुजः कोऽपि बणिजस्तस्य नयनगोचरः। तदवलोकनेन जातसंप्रीतिः प्रसभमनुधावन्नुदाधिवृत्तान्तमस्मै सविस्मयमुवाच । स च प्रत्युवाचैनमेतदीयदीनतावीक्षणप्रविजृम्भितकारुण्य इव 'वैश्यवरेण्यस्त्वमशरण्यः कथमरण्यानीमाधिवसेः । दिवसमात्रमस्मद्गृहे गृहाणासिकां न चेदसि पराङ्मुखः । परमतः पश्यामः कार्यम् ' इति । अर्यश्रेष्ठोऽपि तथेति हृष्टस्तनिर्दिष्टं क्रमेलकमधिरुह्य सहसा विहायसा ययौ । तावता च पुरः समीरणसंचार्यमाणगगनधुनीफेनसंचयेनेव कञ्चुकितं विशदशारदवारिदव्यूहेनेव संनाहितं नभवरतरुणीकुचाभोगच्युतक्षौमोतरीयनिचयेनेव निचुलितमाकालिकतुषार. वारिशीकरक्षोदवर्षेणेव वलक्षितमन्तरिक्षमलक्षयत् । तत्प्रेक्षणेन वैश्यप्रतीक्ष्योऽयं कौतुकाक्षिप्तचेताः ‘न चाय क्षीरवारांनिधिर्जललहरीशिखरवि. हारिडिण्डीरपिण्डः । न हि तत्र नरैर्गन्तुं पार्यते । न चेदमुदयारम्भसंभवदुदंशोः शिशिरांशोरच्छांशुभिर्विच्छुरितहरिन्मुखम् । न हि कौबेरककुभि