SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ एकादशो लम्बः । १५७ साक्षालक्षणसंभावनीयविकचमुकुलनलिनमलकाप्रविगलदम्बुबिन्दुसंदोह - संदेहकरहारमुक्तमुक्तानिकरं करविलुलितसलिलप्लवमानबिसवलयरचितचन्द्रशकलशङ्क जडसंनिधिसंजातवाग्यतवृत्तिकताविभाव्यमानसुजनकृत्यरशनाकलापं दृतिमुखसिच्यमानकुङ्कुमसंपर्कसंभाव्यमानसिन्दुरितकुम्भिकुम्भसाम्यकुचकुम्भं च भृशमक्रीडत् । ____ क्रीडावसाने च बलवदनिलचलकिसलयसमुल्लासिवेलल्लतालास्यलालितेऽभिनवपरागपटलस्विन्न'नागमञ्जुमञ्जरीजालजल्पाकमधुकरनि - करझंकारमुखरे गाङ्गजल इव पृथुलहरीसनाथे, पचेलिमकलमशालिक्षेत्र इव बहुलवनमाले , अङ्गनाङ्ग इव मृदुलपनसबहुमाने , सनीडवर्तिनि मबंदुरासदसुमनोमनोहरानोकहानिबिडे कचिदाक्रीडे क्रीडाक्लमहरणाय विहरमाणः स धरित्रीपतिः क्वापि कोणे कौतुकविधायिकापेयविलोकनाय विलोचने व्यापारयामास । तत्र चातिसंधानकोविदः कोऽपि कपिरन्यस्त्रीसंगमावलोकनेन मन्युग्रस्तां मर्कटीं ‘अवितर्कः कोनाम निसर्गसुन्दरीमनादृत्य त्वामन्यां बहुमन्येत' इति प्रियवचःसहत्रैरपि प्रकृतिमानेतुमपारयन्पारवश्यनटनेन ‘पश्य मां प्रिये, परासुरहं भवामि' इति परिवतितेक्षणः क्षणादेव क्षितौ क्षीणासुरिव पपात । वराकी तु सा वानरी वञ्चनाकृतं मरणमञ्जसेति स्त्रीत्वसुलभाच्चापल्याद्विश्वस्यभावेन दीर्घ नि:श्वस्य ‘हा नाथ , हतास्मि पापाहम्' इत्यालप्य सत्वरमेनं हरि धरातलादुत्क्षिप्य करतले गृह्णती निगृह्णती चात्मानं 'कुट्टिन्या मया पतिद्रोहः कुतः कारणात्कृतः' इति पुनःपुनः कृतगाढपरिष्वङ्गा पाणितलविकीर्यमाणपयःशीकरशीफरेण शिशिरोपचारेण चिराय जीवितेश्वरं जीवयामास । प्रियाङ्गपरिष्वङ्गेण प्रत्युजीवित इव प्रीणानः प्रतारणचतुरः स शाखामृगः शाखिशाखान्तरलम्बमानमम्बरव्यापि पाकसुलभसौरभरचितजिह्वाचापलं पमसफलमानीय मुद्गफलाकाराभिः कराङ्गुलीभिर्दलयना 14
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy