________________
१५८
: गद्यचिन्तामणौ
त्मदयितायै तस्यै ददौ । तदवसरे तत्र नियुक्तो नातिबालः कोऽपि वनपालः पलाययन्मिथुनमिदं फलमेतदपजहार । तदेतदखिलमवलोक्य लोकोत्तरोन्नतचित्तः स जीवंधरमहाराजः सदयमना ‘जीवानामुदय एक न केवलं जीवितमपि बलवदधीनन् । दीनवृत्तिके मृगद्वन्द्वे संभवदिदं द्वन्द्वजातं किमेवं संभाव्यते । भवेऽस्मिन्नेवास्माभिर्भवभृतां वृत्तेरवस्थाविकलता किमनालोकिता। आलोकिताप्येषा विभवदूषिकादूषितदृष्टीनां न खलु नः स्पष्टीभवति । कष्टमतः पूर्वमाचरितम् । सर्वथा काष्ठाङ्गारायते करशाखाभ्रष्टफलः शाखामृगः । अस्मद्यते नूनमाच्छोटिततत्फलः स वनपालः । फलं तु नियमेन भोगायते । गच्छतु तुच्छफलकासया कृच्छ्रायमाणेन मया गमितः कालः । सफलयेयमवशिष्टं वा विशिष्टतपसा। भोगेन हि भुज्यमानेन रज्यमानेनापि त्यज्यते जनः। तस्मादहमेव तावदैहिकभोगेषु मुह्यन्मनो जह्याम् । यावदमी माममीमांसया नूनमभिलषन्तं हसन्त एव जिहासन्ति । नियोगतश्चेद्भोगानां वियोगः स्वयं त्यागात्किमिति लोकोऽयं बिभेति । किं च ते भजन्तमात्मानं त्यजन्तः स्वातन्त्र्यात्स्वान्तमस्य सुतरां तुदन्ति । स्वयं त्यक्तास्तु तदानीं मनःप्रसत्तये पुनर्मुक्तये च भोगा भवेयुः' । इति भूयो व्यरजत ।
तथा विहितविचाराभोग भोगाद्विरज्यन्तं योगे क्रममाणमेनं क्रमादतर्कितदक्षिणाक्षिस्पन्देन किमुदर्कोऽयमिति वितर्कविजृम्भितरणरणकविषीददन्तःकरणास्तदन्तःपुरसुन्दर्यः पर्यवारयन् । वैभवमहो वैराग्यस्य यतो भोग्ये संनिहितेऽप्ययोग्य इवासीदस्पृहमस्य मनः । तत्त्वज्ञानविवेकतो विमलीकृतहृदयाः कृतिनः खलु जगति दुष्करकर्मकारिणो भवन्ति, यस्मादमी मनस्विनो मनोरथेनाप्यभावित्वादभूतत्वादननुभूयमानत्वाच्च वाञ्छामात्रपरिग्रहाण्येव वस्तूनि परित्यक्तुमप्यपारयति लोके, तान्युपभोगभाज्येवाञ्जसा मुञ्चन्ति । तथाहि-- तत्पूर्वक्षणे ताः सुन्दरीनिरन्तरं