SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ दशमो लम्बः । १४३ टवक्षःकवाटविगलदविरलरुधिरधारया धरातलोद्यत्परागपरम्परामाचचाम । ततः साक्षालक्ष्यमाणलक्ष्यतया निष्प्रतिघे सति बलौधे , पृषत्केबु केषुचिदगाधयोधहृदयावबोधलम्पटतयेव प्रतिभटोरःस्थलं प्रविशत्सु , परेषु परप्राणमोषणोपजातभीतिभराक्रान्तेष्विवान्तर्धातुमवनीमवगाहमानेषु , अ. परेषु स्वनायकनिकटाटनविघटनेच्छयेव पाटितप्रतीपगामिपत्रिषु , अन्येषु स्वयमपि जातमन्युभरेष्विवार्धपदविलुप्तपत्रभागेष्वपि परगात्रमधिविशत्सु , पुनरमित्रपर्यायनेत्रश्रवःस्फुरदहंकारहारिटंकारभीकरस्तनितसहितकरालकामुककरम्बितजीवककुमारजीमूतनिष्ठ्यतसनिनदनीरन्ध्रशरनिकरनीरधारा - भिहन्यमानसैन्यसानुमत्संभूता संस्थितधरणीपतिकिरीटकेयूरहारजालवालुकाषण्डा सदण्डसितातपत्रपुण्डरीका वेगविलोठितगजगण्डशैला प्लबमानचामरविसरडिण्डीरा परेततुरगलहरीपरम्पराकुलकूलंकषा कर्षणरयाकृष्टावशिष्टाक्षोहिणीका क्षतजधुनी क्षणादिव प्रावहत् । तदेवं मारितपादाते दारितहास्तिके नश्यदश्वीये विपरिवर्तितरथकड्ये सारथिरहितरथिनि रंथारोहक्षुण्णक्षत्तरि स्तम्बरममरणसविषादनिषादिनि हस्त्यारोहविरहितहस्तिनि तुरङ्गमविगमसीदत्सादिनि अश्वारोहविवर्जिताश्वे च सति सैन्ये, त्रियामामिव दीर्घनिद्रोपद्रुतबहुलां तमोगुण प्रभवां च , बौद्धपद्धतिमिव पिशिताशिसेव्यां निरात्मकशरीरां च , गार्हस्थ्यप्रवृत्तिमिव मृतवारणविधुरां रक्तसुलभां च विलोक्य रणभुवम् ‘किमिति क्षोदीयांसो हिंस्यन्ते जन्तवः । स एव द्विषन्समूलकाषं कषणीयः' इति धिषणया पर्याणाञ्चितस्याअनगिरिनाम्नः कुञ्जरस्य स्कन्धं बन्धुरयञ्जीवबन्धु बंधरकुमारः सुरशत्रुसादनोद्यतः शक्तिधर इव करकलितशक्तिः, त्रिपुरदहनाभिमुखस्त्रिपुरान्तक इव नितान्तभीषणकोपाट्टहासः , दाशरथिरिव तपस्यानधिकारिणं शम्बुकं राज्यानधिकारिणमेनमपि शीर्षच्छेद्यं परिच्छिद्यारातिमाह्वयते स्म । आह्वानक्षण एव क्षीणतरादृष्टः स रुष्टः काष्ठाङ्गारः क्रोधवेगस्फुरदोष्ठपटतया नि
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy