________________
१४२
* गद्यचिन्तामणौ
सपक्षपातं कुमारमैक्षिषत । पातिततद्वचनाशनिज्वलनज्वालास्पृष्टः स काष्टाङ्गारोऽप्यङ्गारीभूतकाष्ठवन्निःसारतां गतः । कथमन्यत्प्रस्तुतमन्यदुपस्थितं यदतिसंवित्सितो गोविन्दमहाराजः स्वयमस्मानतिसंधातुमवाप्ताभिसंधिरासीत् । 'इदं हि जगति लाभमिच्छतो मूलच्छेदः प्रकृत्या स्वयमस्माकममित्रोऽयं वणिक्पुत्रो राजपुत्रत्वमप्यतेनारोपितः । पुनरेनं च प्राप्य प्रतिष्कशङ्काकार्कश्यमपरं नः किं न कुर्यात् ' इति विमृशन्नेव विसृज्य तदास्थानमादृतप्रस्थानो भवन् 'अस्थाने पतितमिदं राज्यं त्यज्यतां त्वया नियोज्यखेटकेन' इति प्रकटाटोपपाटवैः पद्ममुखादिभिर्निर्भसितोऽयं कुत्सित. त्तिः पुनयुयुत्सुरासीत् । बभूवुश्च काष्टाङ्गारतो निकृष्टा विशिष्टास्तु जीवं. धरराजतो राजानः ।
___ ततस्तपस्यामिव बलवदुपास्यां दुरन्ततया तु ततो नितान्तगर्हणीयाम् , मीमांसामिव परिहिंसाप्रवणभजनीयामीश्वरापेक्षतया तु ततो विलक्षणाम्, चार्वाकचर्यामिवानपेक्षितात्मनिर्वहणीयां गुरुद्वेषमूलतया तु ततोऽपि कुत्सनीयामाजिमारचयितुमतीव क्षोदिष्ठे काष्ठाङ्गारे प्रक्रममाणे, पराक्रमशालिषु पद्ममुखादिष्वपि युद्धाभिमुखेषु , पिनद्धाोरुके सशीर्षके च सति सादिनि निषादिनि च , समारोपितधनुषि धन्विनि, धनुर्धरचक्रवर्तिना चक्रव्यूहपरेण च पद्मव्यूहे कृते, चक्रशोभिशताङ्गनक्रभृति तुरंगतरङ्गिणि मातङ्गपोताङ्कित पादातपयसि परस्परस्पर्धेद्यतपारावारद्वय इव पक्षद्वये लक्ष्यमाणे , पटहध्वनेरपि ज्याघातरवे पांसुपटलादपि पत्रिणि गभस्तिमालिगभस्तेरप्युदस्तास्त्ररश्मिनिकरे रणरागादपि रक्तौघे प्रतिसमयं प्रकृष्यमाणे , धानुष्कैर्धानुष्का निषादिमिनिषादिनः सादिभिः सादिनः स्यन्दनारोहैः स्यन्दनारोहा युयुधिरे । तावता धरणी धरणीपतिमरणभीत्या रणनिवारणायेव रेणुपटलापदेशेन परस्परदर्शनं परिजहार । मिथोदर्शनापेक्षिणीवाक्षोहिणी तत्क्षण एव शिलीमुखमुखविघटितविशङ्क