________________
१४४
गद्यविन्तामण
कटवर्तिनो निजाह्वानकृते कृतागमान्कृतान्तदूतानिव स्वान्तसंतोषिभिः सान्त्वयन्वचोभिः नातिचिरभाविनरकायसयभवदवतमसप्रचयमिवात्मानं प्रतिग्रहीतुकाममागतं करालं कालमेघाभिधानं करिणमारुह्य रोषाशुशुक्षणिविजृम्भमाणशोणेक्षणतीक्ष्णार्चिश्छटाच्छन्नाङ्गतया सप्तार्चिषि निमउज्य निजस्वामिद्रोहभावं विभावयितुं मापयन्निव सत्यंधरमहाराजतनयाभिमुखमभीयाय । अवदच्चायमकिंचित्कर: किंचिन्न्यञ्चन्मनाः 'कुमार कुरुवंशशिखामणे, प्रणतराजचूडामणिकिरणशोणनखमाणचरणो रावणोऽपि रणे मरणभीयिवानायुर्विरामे रामेण । किंपुनरपरः । तदयं मया वध्यो वध्योऽहमनेनेति बुद्धिमन्तो न विबुध्यन्ते । किमर्थं मामविवेकमधिकमधिक्षिपसि' इति प्रतारणपरमेतदणकनरेन्द्रस्याकर्ण्य कस्यचिद्भाषणं किमभैषीः इति प्रत्यभाषत प्रतिभाप्रकाशिततन्मनीषितः स मनीषी । पुनरनैषीच्च गत्यन्तरमत्यन्तरोषहुतवहावहवचःश्रवणेन ' किं वणिक्पुत्र , किं वाङ्कात्रेण । विजयस्तु विधिवशतः । तव शक्तिसमागमे चक्षुषी चेन्मम त्रासजुपी स्यातां तदा परुषा स्यान्ममेयमाहोपुरुषिका । युक्तं च त्वयापि वक्तुमेवम्' इत्युक्ता सत्वरोपसर्पितकरिणः करिणमवप्लुत्योदस्तकौक्षेयकं क्षेपीयः स्वयं हन्तुमापतन्तं तमन्तराले नितान्तनिशितशक्तिशकलितशरीरयष्टिं काष्टाङ्गारम् । उदस्तम्भयच्च संग्रामसंरम्भस्तम्भनं विजयानन्दनो विजयशंसिनं विजयध्वजम् । अभ्यनन्दयच्च सानन्दमभ्येत्य सफललोचनत्वमात्मन्यात्मजायां वीरपत्नीव्यपदेशं वीरसूव्यपदेशमप्यवरजायामाकलयन्तम् , चन्दनशिशिरेण हृदयनिर्वाणविवरणचतुरेण विमलस्थूलेन निष्पतता बाष्पपूरेणाभिषिञ्चन्तमिवालिङ्गन्तं गोविन्दराजम् , आजिदर्शितनैकापदानमंभवदानृण्यानवरजसमेतान्सखीन्सह प्राभृतेन प्रसभमागत्य प्रणमन्तमपि पृथ्वीपतिसमाजम् ।।
ततश्च वैरिनिहननोपलब्धवैरशुद्धिमेनं विलोकयितुमरिशुद्धान्ताव