________________
सप्तमो लम्बः ।
१०७
न्तुरितारविन्दसवर्णवैवर्ण्यानि वदनानि साकूतं सानुतापं सदैन्यं चन्यशामयत् । तन्निशामिताः सख्यश्च सख्यं गता इव तोयदैः पूर्वमुल्लसद्दशनकिरणतटिल्लुतां पश्चात्पतिप्रयाणवार्तापत्रं तदनु नयनजलधारामप्यपातयन् । सा तु क्षेमश्रीः श्रवसि तद्वार्ता मनसि हृल्लेखं वपुषि प्रकम्पं चक्षुषि बाष्पधारामात्मन्यविषाशुचं वदने वैवर्ण्यं नासिकायां दीर्घश्वासमास्ये परिदेवनं च यौगपद्येन भजन्ती तदशनिपतनादपासुरिव भूमौ पपात । तथाविधामनस्यामिमां वयस्येवाविदितकृच्छ्रामातनोन्मूर्छा ।
एवमतिमोहविधुरां वरोपलम्भवरार्थितया निभृतेन्द्रियवृतिं पृथ्वी - शयने प्रतिशयानामिव शयानां फणिनीमिव फणामणिना पद्मिनीमिव पद्मबन्धुना रतिमित्र त्र्यम्बकललाटाम्बकदहनदग्धमदनेन दयितेन विप्रयुक्तामतिदयावहां जीवंधरदयितां निशाम्य, निर्वृतिरधिकनिर्वेदा खेदप्राचुर्यादुद्धरणविहस्तेन हस्तद्वयेनोत्क्षिप्याङ्गजामङ्कमारोप्य, तदङ्गमतिपांसुलं क्षालयन्तीक क्षरदश्रुजलैर्हिमजलकर्पूरपूरविलुलितमलयजस्थासकस्थगितस्फारहारशीफरशिशिरोपचारैर्निवारितप्राणप्रयाणां विधाय, 'विधिविलसितमिदमतिनृशंसम् । हंसगमनेयमेवमप्यस्मदीक्षणाभ्यामहो कथमीक्षिता' इत्याधिक्षीणा तत्क्षणे पूर्वक्षणदायां स्वापावसाने स्वनमालोकितमनुस्मृत्य सविस्मयं साश्वासं सानुनयं च समभ्यधात् - -" पुत्रि, रात्रावतीतायां दयितां हंसीमपहाय राजहंसः कचिद्गत्वा संगतश्च पुनर्दृष्टः । ततः संगंस्यसे त्वमपि जामात्रा । धात्रीतलदुर्लभस्तव वल्लभः सुते, स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेव प्रयास्यति । तवालस्यादिदमनवधृतम् । अथवा किमिदमाधुनिकमावश्यके कर्मणि सकलकर्मकर्मठानां पुरुषाणां क्वचिदटनं पुनर्घटनं च” इति । एवमभिहितैरतिहितैर्मातृवचोभिः पिहितासुमोक्षाशास च पतिदेवता पतिपदं परमेश्वरश्रीपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकृते हृदि निधाय निषसाद |