SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ एकादशो लम्बः । १६९ हायाः साहस्रीः सहसा नासीरतां प्राप्ताः सप्तप्रकृतीनिहत्य निरुपमनिजात्मस्वभावविघातिनि घातिकर्मचतुष्टयेऽपि समूलघातं हते, निहतकर्मवैरिणमेनं मुनिराजं पूजयितुं पुञ्जीभूतैरक्रमं शक्रचक्रधरधरणेन्द्रप्रमुखसुरासुरनरखचरैः करपीडाहमहार्हकल्याणविधौ विधीयमाने , ध्यानाग्निसाक्षिकमात्मसामर्थ्यादात्मनैवात्मने वितीर्णा पूर्णनिखिलगुणां प्रगुणरमणीयस्वभाववेषभूषां योषान्तरासंभवदनुभवपौनःपुन्येनाप्यखिन्नामन्योन्यमन्यूनानतिरिक्तरतिशालीनतया समानभर्तृशीलामतीव केवलां कैवल्यवधूं विधिवदुपयम्य सदाप्यनुपरतकाम्ययाप्यनघया तयैवाघातिचतुष्टयेऽपि धातिते प्रतिघरहितसुखहेतुसमृद्ध सिद्धिगृहोदरमासाद्यानवद्यमात्मसंवेद्यमात्मसंभवमात्मस्वभावमात्माह्लादनमनन्तमनन्तरायमनन्तकालस्थितिकमनन्तविज्ञान - वीर्यदृशात्मकमनन्तकर्मक्षयापेक्षमनन्तपूर्वजननानुपलब्धपूर्वं पुनरनुत्पाद्यमनुपरममनुपममनुत्कर्षमनपकर्षमनुक्षणसुलभं सुखमनुबोभूयते । इति श्रीमद्वादीभसिंहसूरिविरचिते गद्यचिन्तामणौ मुक्तिश्रीलम्भो नामैकादशो लम्वः । -:*:श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः । स्थेयादोडयदेवेन चिरादास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः । गद्यचिन्तामणिोंके चिन्तामणिरिवापरः ॥ - - - समाप्तोऽयं ग्रन्थः ।। - बटटटटटटटटटी -
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy