________________
१३८
गद्यचिन्तामणौ
करनिकरनिबिडितनिलिम्पवर्त्मना प्रावृषेव प्रेक्ष्यमाणया वाहिन्या वाहिनीपतिरिव प्रलयकालोटेलः प्रच्छादितपृथ्वीतलः प्रत्यर्थिनिर्मूलनाय हेलया हेमाङ्गदविषयं प्रति ययौ । ततश्च वलक्षतरवारवाणोल्लसत्सौविदल्लवलभकरपल्लवकलितवित्रासकवेत्रलतात्वर्यमाणराजपरिबर्हधारिणि राजकीयदवीयःप्रदेशप्रापणश्रवणक्षणसत्वरसंभाण्डयमानभाण्डागारिकपरिषदि प्रश्रयप्रणतोत्थितगुणधनापृच्छयमानगुरुजनगौरवविहिताशिषि. प्रतिनिवर्तनप्रत्याशाविधुरभीरुचारभटनिर्दिश्यमाननिधिन्यासकोणक्षोणिनि विलम्बितलम्बोदरदासेरकसमाह्वानपौनःपुन्यखिन्नस्विन्नपुरोयायिनि विस्मृतविस्मयनीयाहार्याहरणधिषणाप्रेष्यमाणभुजिष्याभाष्यमाणव्यक्तेतरविसंवादवच - सि प्रसभप्रयाणप्रवणतानुष्ठितपृष्ठावलोकनानुवर्त्यमानप्रतिनिवर्त्यमानसनाभिसंसदि प्रगुणवलनभ्रष्टगोणीकदुष्टशाक्करदूरवित्रासितयात्रिकसंबाधे चण्डचण्डालपेटकनिबिडमुष्टिघटितकठोरकुठारपाटितविटपिविशङ्कटीकृतसंकटारण्यसरणिनि खननकरणनिपुणखानित्रकगणक्षणसंपादितोदम्भ:कूपशुम्भितमरुभुवि तादात्विककृत्यदक्षतक्षकसार्थसामर्थ्यवैचित्र्यरचितव - हित्रसुतरकाकपेयसरिति पुरःप्रसारितभूरिभीकरकलकलारवकांदिशीककेसरिणि चरणक्षणोत्थितधरणीविसृमररेणुविसरमसृणितमयूखमालिनि वारणपरिबृढोत्पाटितपार्श्वपादपपरिघसप्रतिघाध्वनि कण्ठरज्जुकषणोन्मथितत्वगालानवनस्पत्युद्वीक्षणवनचरानुमीयमानवारणवर्मणि प्रतिगजगन्धघ्राणप्रतीपगामिकाननद्विपप्रतिग्रहकृताग्रहभटप्राग्रहरकोलाहलभरितहरिति द्विरदतुरगखरकरभमहिषमेषशाकरशताङ्गशकटप्रमुखपृष्टारोपिताभीष्टकशिपु - समेतसकलहतिनि हेमाङ्गदविषयं विविशुषि सैन्ये, राजन्योऽप्युत्तरेण राजपुरीमुपकार्या कल्पयेयुरिति शिल्पिसमाजाध्यक्षानादिक्षत् । प्राविक्षच तां क्षणकल्पितां स्वसंकल्पसिद्धिशङ्काप्रहृष्टेन काष्ठाङ्गारेण प्रसभं प्रत्युद्यातः पृथिवीपतिः ।