SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः शयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधनं समर्पयितुमस्मै कालोऽयमित्याकलय्य गुरुशुद्धिप्रदर्शनेन सविस्रम्भमस्य मनः कर्तुं स्ववृत्तान्तमन्यकथाव्यावर्णनव्याजेन व्याजहार — " वत्स, वन्दमानविद्याधरमकुटताडितपादपीठकण्ठेोक्तमहिमा महीपतिरभूदभूतपूर्वः सर्वविद्यासाम्राज्यसंपदुन्मेषविभ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमुचामम्बराभोगमलिम्लुचं महेन्द्रनीलमणिवातायनतिलकितं सौधवलभीमघ्यं सुमध्याभिः सहाधिवसन्घनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवाभ्रमपश्यत् । पश्यत्येव तस्मिन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नैशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेद : ' सर्वथा सलिलबुद्बुदसहचरा न सन्ति चिरावस्थायिनः संसारविभ्रमाः । तरुतलपुञ्जिताः पर्णराशय इव प्रबलपवन परिस्पन्देन सुकृतपरिक्षयेण तत्क्षण एव नश्यन्ति संगताः संपदः । पाकशासनशरासनमिव विश-रारु नानारागपल्लवोल्लासविलासोपवनं यौवनम् । जीवितं तु किमिदानीमुद्भाविन्यपि समये स्थायीति जगति न केनापि निश्चेतुं पार्यते । कथमपि कालं कंचिदवस्थितिभाजोऽप्यायुषः क्षय एव नियतः । तदेतत्सर्वं स्वयमेव यास्यति । वयमेव निरस्यामः' इति विचार्य विनश्वरश्रीविलासपराङ्मुखः परनिरपेक्षं निरवधिकमनुपाधिकं च सुखमनुभवितुमिच्छन्पुत्रशिरसि निवेश्य राज्यभारं भवसंज्वरपरिहरणविचक्षणां जिनदीक्षां प्राविक्षत् । प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्राग्जन्मार्जितदुर्जरपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भस्मकेन पर्यभूयत । परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत इव दुर्लभं धनं परमं तपः पर्यत्यजत् । अवर्तिष्ट च यथेष्टं स्वैरविहरणावकाशप्रदानपण्डितेन पाषण्डिवेषेण । स पुनरङ्गार इव भस्मना भस्मकमहारोगेण तिरोहितदीप्तिः सम्यक्त्वपूतमतिस्तत इतो विहरन्ननव 1
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy