SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ रतजृम्भमाणदारुणबुभुक्षाक्षोभितमतिः कदाचिदधरितकुबेरवैभवस्य गन्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुम्भिताभ्यन्तर निरन्तरविप्रकीर्णमणिगणशरिलभूतलमगस्त्यकबलितजलपूरमिव रत्नाकरमाखण्डलकुलिशपुनःपतनभयपरिवृत्तवेषमिव रोहणशिखरिणमभिनवशष्पशङ्कातरलितगृहहरिणपोतलिह्यमानगरुत्मदुपलघटिततलमयूखपटलमतिचटुलपरिचारकचरणपुटरटितरत्नसोपानमवलम्बितमुक्तादामपुलकितवलभीनिवेशमितस्ततोदृश्यमानचामीकरपर्यङ्कपरिहसितमेरुशिलातलमाभि - नवसुधालेपधवलितोपरिभागरम्यं हर्म्यमविशत्। तत्र च प्रसार्यमाणसौवमित्रविडम्बितमित्रमण्डले त्वरमाणपरिजनवनिताकरप्रमृज्यमानमणिचषकशुक्तिसंचये संमूर्च्छदतुच्छपाटलपरिमलसुरभिपानीयभारततपनीयभृङ्गारके लिख्यमानमङ्गलचूर्ण रेखानिवेद्यमानभोजनभुवि समुद्घाटितपञ्जरकवाटविनिर्गतक्रीडाशुकशारिकाहूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्रदीयमानपतिभोजनामत्रकदलीपत्रे प्रत्यग्रपाकजनितसौरभ्यलुभ्यदाणे समन्ततश्चलिततालवृन्तग्राहिणीचरणनूपुररणितभरितदिशि भोजनस्थानमण्डपे जैनजनसर्वस्वतया निःशङ्क प्रविशन्नातिदूरनिविष्टैनिबिडभूषणमणिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयोरूपलावण्यैर्वयस्यैरुपास्यमानमुडुगणपरिवृतमिव बालचन्द्रमसमायुष्मन्तमपश्यत् । भवानपि बाल्येऽप्याकृतिज्ञतया प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशीं बुभुक्षामालक्ष्य ‘भोज्यतामयमभिमतै ज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत्। भिक्षुरपि कटाक्षपातक्षणसंनिहितसलिलकौन्तिककरावर्जितकनकभृङ्गारगर्भगलितधारालसलिलक्षालितचरणः प्रसारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामत्रपातितममलदुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिमविरलघृतसितासंपातद्विगुणितमाधुर्येण मौद्गकद्रवेण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनक
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy