________________
द्वितीयो लम्बः
३९
पालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शातकुम्भकुम्भसदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचुरमरीचानुगुणलवणमधुरनालिकेरपयःपल्लवितरसेन बृहद्वृहतीप्रमुखेनाञ्जनशिखरिदेशीयेन व्यञ्जनजातेनाप्यभिव्यञ्जितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत । पुनरप्यहृष्टमनसे प्रचुरमन्नमह्नाय भोक्तुमभिलषते तस्मै विस्मयस्तिमितमनसा त्वया समादिष्टाः पौरोगवाः पूर्वनिष्पन्नं तद्भवनवासिनिखिलजनभोक्तव्यं विविधमन्धः संभारं समर्पयामासुः । स भिक्षुरक्षीणबुभुक्षुस्तदशेषमशनमम्भोधिपयःसंभारमिव कल्पान्तकालानल: कबलयन्न कदाचि - दतासीत् । एवं पूर्वनिष्पन्नैस्तदात्वसंपादितैरपरिमितैश्च पायसदाधिकसार्पिष्काद्यमृतपिण्डैरपूपैरप्यपूर्णजठरमाशार्णवमिव वर्णिनमालोक्य चित्रीया - विष्टस्त्वमनासादिताहारो निवसन्भिक्षोर्व्याधेः परिक्षयकालतया वा कुमारकारुण्यवैभवेन वा तथाभवितव्यतया वा तस्य वस्तुनः स्वहस्तावलम्बि - तं कलमकबलमत्यादराददिथाः । तदास्वादनमात्रेण तृष्णापयोधिरिव भगवत्या परमनिवृत्या क्षण एव तस्मिन्पूर्ण वर्णिनो जठरमभूत् । आसीज्च्चास्य सौहित्यम् । अत्रपच्चायमतितराम् । नितरां व्यस्मेष्ट प्रकृष्टतपसां सुलभेन भवन्माहात्म्येन । निरणैत्रीच्च भवलक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तसंकटकुटीरे बहिरपि विहारयन्नित्र रोमाञ्च - निभेन हर्षभरम् – ' आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मकव्याधेः । कात्र कर्तव्या प्रत्युपकृतिः । नहि प्रतिकृतिसव्यपेक्षाः प्रेक्षात्रतामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम् ' इति सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोक हितहेतुभूतमभूतपूर्वमहिमानमनत्रद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम् " इति ।
एवं विदितगुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबूबुधत्