________________
४०
गद्यचिन्तामण
"
-" वत्स, तवाधिगतगृहमेधिधर्मयाथात्म्यप्रतिपादनप्रकारविलसदुपासकाध्ययनपरमागमस्य नोपदेष्टव्यमस्ति । तथाप्युपदेशमूलाया एव सकलकर्मप्रवृत्तेः सफलत्वात्संगृह्य किंचिदुपदिश्यते । श्रवणग्रहणधारणानुस्मरणप्रमुखविविधप्रयाससाध्यस्य शास्त्रावगमस्य प्रयोजनं पुंसां हेयोपादेयपरिज्ञानस्वरूपपुरुषार्थसिद्धिस्तन्मूलत्वादपवर्गप्राप्तेः । सा चेन्न स्याद्वीहिखण्डनायास इव तण्डुलत्यागिनः, कूपखननप्रयास इव नीरनिरपेक्षिणः, कणादोक्तिरिव शास्त्रशुश्रूषापराङ्मुखस्य द्रविणार्जनक्लेश इव वितरणगुणानभिज्ञस्य, तपस्याश्रम इव नैरात्म्मवादिनः, शिरोभारधारणःश्रान्तिरिव जिनेश्वरचरणप्रणामबहुमतिबहिष्कृतस्य प्रव्रज्याप्रारम्भ इवेन्द्रियदासस्य विफलः सकलोऽप्ययं प्रयासः स्यात् । इह केचन कोमलप्रज्ञाः प्राज्ञजनगर्हितं क्षयैकशरणशरीरजीविकामात्रमास्थानवशीकरणचतुरचतुर्विधपाण्डित्यलाभं च शास्त्रावगतेः प्रयोजनमाकलयन्तः केवलं विक्रीणानां : प्रकृष्टमूल्यानि मुष्टयन्धसे मुक्ताफलानि नाफला इव विफल प्रयासाः प्रेक्षावदुपेक्ष्यतां कक्षीकुर्वन्ति । दुर्लभाः खलु हेयोपादेयपरिज्ञानफलाः शास्त्रावगतीर्निश्चिन्वाना विपश्चितः । ततः प्रत्यासन्नभव्यो भवान्भवान्धकारविहरणरजनीमुखं रागद्वेषादिरूपं हेयं विलयविरहित निरवधिकानन्दमूलकन्दं श्रीरत्नत्रयाभिधानं धनमुपादेयं च यथावदवगम्य गार्हस्थ्यधर्मार्हमनुष्ठेयमनुष्ठातुमर्हति " इति ।
एवं गुरूपदेशपरिगृहीतसमुचित सम्यग्दर्शनज्ञान चारित्रस्य सकलरहस्योपदेशनिक्षेपक्षेत्रस्य तस्य राजकुमारतामावेद्य राज्ञां चरितमभिधित्सन्नादितः प्रभृति कार्त्स्न्येन तदुदन्तमिदन्तया सस्नेहमुपहरे सूरिरुपन्यास्थत् । उदस्थाच्च महीपृष्ठाद्गुरुमुखावगतनिजचरितप्रपञ्चः, पञ्चाननपोत इव मदबदरण्यदन्ताबलदर्पपरिभूतः प्रभूतकोपपावककपिलकपोलमण्डलव्याजेन प्रत्यर्थिविनाश सूचिनमुत्पाततरणिबिम्बमिव दर्शयन् प्रतिभ
,
"