________________
द्वितीयो लम्बः ।
टविपिनदिधक्षया रोषरूषितस्य चक्षुषः प्रभाजालेन प्रतिदिशं प्रसप्ता प्रेषयन्निवाशुशुक्षणिम् , अविरलघर्मोदबिन्दुपुलकिते क्रोधलक्ष्मीकटाक्षकुटिलभृकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाहवविजयाय मूर्धनि कुर्वन् , समरदेवताराधनाय कुसुमनिचयमिव कोपाट्टहासमरीचिचन्द्रिकाच्छलेन संचिन्वन् , दशनच्छदेन मुहुर्मुहुः स्फुरता वैरियशःक्षीरपानकौतुकमिव प्रकटयन् , प्रकटितात्मवैभवः कुमारः, ततो निकटवर्तिनं कोदण्डदण्डमकाण्डकोपघटितकृतान्तभ्रूभङ्गविडम्बिनमविलम्बेन गृह्णन्गृहीतकतिपयकाण्डः काष्ठाङ्गारवधे विधाय संरम्भं ससंभ्रममुदतिष्ठत । तथोत्तिष्ठमानं च तमुत्पाततपनमिव दुःसहतेजसमुल्बणविषमिव भुजङ्गराजमशेषभुवनभयंकरं राजकुमारम् ' अलमलमकाण्डसंरम्भेण' इति निवारयन्नाचार्यः , प्रज्वलत्प्रकोपदहनजनितदाहभय इव शिष्यहृदयमनुपसर्पति निजवचसि , 'वत्स , वत्सरमात्रं क्षमस्व । गुरुदक्षिणेयम् ' इति सप्रणयमयाचिष्ट । स च कोपाविष्टमतिरपि गुरुणा गुरुप्रणयेन तादृशमाचार्यवचनमतिलङ्घयितुमक्षमः प्रतिषिद्धप्रसरेण रोषहुतभुजा भुजङ्गम इव नरेन्द्रप्रभावप्रतिबद्धपराक्रमः प्रकाममदह्यत ।
अथ शिक्षावचनतीक्ष्णाङ्कशनिपातनिवृत्तसंरम्भमेनं समदमिव मातङ्गं प्रियवचनेन प्रकृतिमानीय विनयविरोधियौवनवित्तमत्तजनानर्थप्रदर्शनपटीयसीं वाचमाचार्यः स चतुरमभिधातुमारेभे- "वत्स, बलनिषूदनपुरोधसमपि स्वभावतीक्ष्णया धिषणया धिक्कुर्वति सर्वपथीनपाण्डिये भवति पश्यामि नावकाशमुपदेशानाम् । तदपि कलशभवसहस्रेणापि कबलयितुमशक्यः प्रलयतरणिपरिषदाप्यशोष्यो यौवनजन्मा मोहमहोदधिः । अशेषभेषजप्रयोगवैफल्यनिष्पादनदक्षो लक्ष्मीकटाक्षविक्षेपविसी दर्पज्वरः । पुरोवर्त्यपि वस्तु न विलोकयितुं प्रभवतः प्रभूतैश्वर्यमदकाचकञ्चुकितरोचि