________________
४२
गद्यचिन्तामण
पी चक्षुषी । मन्दीकृतमणिमन्त्रौषधिप्रभावः प्रभावनाटकनटनसूत्रधारः स्मयापस्मारः । पातालविवरपतितविश्वंभरा समुद्धरणधीरो मुरारिरपि वराहरूपी नालमुद्वर्तुमुदर्कविषमविषयाभिलाषबहलजम्बालजालमग्नं मनः । सकलसागरसलिलपूरेणापि न पार्यते क्षालयितुमुत्तालरागपर। गपटलपरिष्वसङ्गि मालिन्यम् । अवस्थाविषमविषमोक्षभीषणा राजलक्ष्मीभुजङ्गी । इति किंचिदिह शिक्ष्यसे । अविनयविहंगलीलावनं यौवनमनङ्गभुजङ्गनिवासरसातलं सौन्दर्यं स्वैरविहारशैलूषनृत्तास्थानमैश्वर्य पूज्यपूजाविलङ्घनलघिमजननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सद्म सर्वानर्थानामित्यर्थेऽस्मिन्कः संशयः । स्फटिकोपलबिमलमपि मनो मानवानां यौवनलक्ष्मीपाद पल्लवन्यासेनेव समुद्वहति रागम् । शास्त्रशाणोपलकषणमुषितमासृण्यापि मतिरवतरदभिनवयौवनं वनिताचरणसमुत्थापितेनेव रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमदमधुपानमत्तेव चित्तवृत्तिः । कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गावर्तदुस्तरं तरन्ति तारुण्यजलनिधिम् | यौवनशरदागममत्तानां विघटित - विवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कुशीभवन्ति गुरूपदेशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेश बीजप्ररोह भूमयः । नवसुधालेपधवलिमभासि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभविवेकविद्राविततमसि मनसि विलसन्ति गुरूणां गिरः । प्रबलतमतमः - कालायसकङ्कटिनि जडधियां हृदि प्रवेश्यमानाः शकली भवन्ति हितानुशासनवचनपर्यायाः पत्रिणः । उपदेशवचनं नाम मर्त्यानाममन्दरमथनपरिश्रमसाध्यममृतपानम्, हृदय गुहागर्भनिर्भरमूर्च्छद नच्छतमश्छटाविघटनचण्डमचण्डभानवीयमंशुजालम्, अविवेकविपिनभस्मीकरणपाण्डित्यपात्रमचित्रभानवीयं चेष्टितम्, परिपाकपयोधिविजृम्भणैककारणमशिशि