SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ रङ्गेण तुरङ्गेण युगपदाक्रमन्दिशां चक्रमक्रमेण निखिलनिजराज्यहरणदक्षमात्मानमनक्षरमभाषिष्ट । अनवरतयोग्यापरेण कुमारेणारूढः प्रतिभटमनोरथानपि धरामिव दारयिष्याम्यचिरादिति कथयन्निव रथश्चक्रचीत्कारव्याजेन व्यराजिष्ट । आकर्णाकृष्टः कर्णे सपुपदिशन्निव मौर्वीस्वनेन समरविजयकलामविरलशरासारवर्षी राजसूनोरलक्ष्यत लक्ष्यभेदचतुरस्य चापदण्डः । आरम्भसमय एव गुणनिकायाः केशानप्यतिसूक्ष्मान्पाटयितुं पटुः पार्थिवसुतेन पाणौ कृतः कृपाणः कृशेतरनखमरीचिसंपर्कादासन्नविनिपातपरिज्ञानविधुरमहसदिव काष्ठाङ्गारम् । एवं क्रमादभ्यस्तसाहित्यं साधितशब्दशासनं समालोकितवाक्यविस्तरं विजृम्भितप्रमाणनैपुणं नितिनीतिशास्त्रहृदयं शिक्षितलक्ष्यभेदं विधेयीकृतविविधायुधव्यापारं पारदृश्वानमश्वारोहणविद्याया विश्रुतवारणारो- - हणवैयात्यं वीणावेणुप्रमुखवादनप्रथमोपाध्यायं विदितभक्तमार्ग नैसर्गिकनित्यविज्ञानवैशारद्यविस्मापितशैलूषलोकमुल्लोकनिखिलनिजचरित्रविराज - मानं राजकुमारं कुसुममिव गन्धः क्रीडावनमिव वसन्तश्चन्द्रमसमिव शरदागमः कुमुदाकरमिव कौमुदीप्रवेशः करिकलभमिव मदोद्गमो यौवनावतारः परं दर्शनीयतामनैषीत् । तथाहि ----प्रविविक्षन्त्याः प्रतिभटराजलक्ष्म्याः सुखासिकादानमिव विधातुं वितस्तार वक्षःस्थलम् । दिशिदिशि चलितस्निग्धधवलदीर्घवपुषः कटाक्षाः कान्तिलक्ष्मीजन्मदुग्धजलधिविभ्रम बिभ्रति स्म । अंसवलभीसमर्पणाय धरणीमादातुमिव जानुलम्बिनौ बभूवतुर्भुजौ । स्पर्धयेव परस्परं वर्धमानाभ्यां प्रतापकान्तिभ्यामशिशिरशिशिरकिरणयोरद्वैतमिव राजसूनुरदीदृशत् । एकदा तु तमेकान्ते प्रान्ते निवसन्तमन्तेवासिनमालोक्याचार्यः प्रज्ञाप्रश्रयबलेन हेलया संजातां विद्यापरिणतिं विमृशन्करतलसंस्पर्शेन सादरं संभाव्य निरवसानव्यसनप्रसूनदायिसंसृतिलताच्छेदकुठारं निरति
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy