SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः । अथ महार्हे रत्नशिलाघटिततले स्फटिकदृषदुपरचितभित्तिभासुरे वासरालेकपरिभाविमहेन्द्रनीलनिर्मिताङ्गणभुवि दुग्धजलधिफेनधवलवितानविभ्राजिनि विराजमानसरस्वतीप्रतिमाञ्चितचित्रपटे संचितसकलग्रन्थकोशे कोशनिहितनैकशतनिस्त्रिंशनिरन्तरे स्तबरकनिचोलचुम्बितचारुचापदण्डे कुण्डलितशिखरमनोहरचण्डयष्टिनि निष्टप्तहाटकघटितदण्डकान्तकुन्ते प्रान्तपुञ्जितनिशतशरप्रकरे प्रासतोमरभिण्डिपालप्रमुखनिखिलायुधनिरवकाशितखलरिकोद्देशे कुशेशयासनकुटुम्बिनीकोशगृह इव दृश्यमाने महति विद्यामण्डपे पाण्डित्यपयोधिपारदृश्वना विश्रुतप्रभावेण विश्वव्यवहारशिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तमपि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि । ततः सप्रश्रयशुश्रूषाप्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिंश्चन्द्रमस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमीत् । अत्युल्बणजराजर्जरितमनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामरससोदरं तदाननमास्पदीचकार । तथाहि-अपरिमितार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम् , दुर्गमदुर्मतमहाकर्दमशोषणप्रवणार्के तर्कशास्त्रम् , याथात्म्याञ्चितप्रपञ्चपञ्चास्तिकायवस्तुवास्तवावबोधसिद्ध्युपायमपि सिद्धान्तं यथावदध्यैष्ट । अधिष्ठाय पृष्ठपीठमतिकठोरकुम्भतटनिवेशितनिशिताङ्कुशनखरः कुर्वन्नुर्वीधरमिव जङ्गमं मातगमपगतमदचापलमात्मवशगामिनमनन्यसुलभपराक्रमपरिशङ्कितां प्रकटीचकार राजसिंहतां राजकुमारः । अतिरभसचटुलखुरपुटविदलितधरणी
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy