________________
गद्यचिन्तामणौ
_____' आसीदियं तरुणी तारुण्यानेडितलावण्या । भवन्ति चास्याः पश्यन्तः पयोधरोन्नतिं पार्थिवजाताश्चातका इव जातास्थाः । इदं हि संसारिणां सांसारिकप्रसूतिजातेष्वरुन्तुदं दुर्जातं यदात्मसंभवानामात्माभिवर्धितानां च कन्यानामन्येन केनाप्यदृष्टपूर्वेण घटनं तस्मादप्यनुरूपवरान्वेषणं ततोऽपि सुखासिकाचिन्तनम् ' इति । चिन्तानन्तरममात्यान्तरं नाम्ना धरमाहूय माम् 'अस्माकमस्ति मित्रं धात्रीतलराजिनि राजपुरे कोऽप्यूरव्यपतिः । एनमधुनैवानय' इत्यभ्यधत्त । अहमपि कार्यपारतत्र्यादार्य प्रायैवमानीतवानस्मि” इति ।
अथ यथावदवगतपोतोपद्रवविरहेण विश्रुतबान्धववियच्चराधीशसकाशसंगमलाभेन च सांयात्रिकः समदपरवशो धरेण साकमुपसरन्दूरादेव बधिरितश्रवसा तुमुलरवेण सरभसमागच्छेत्यात्मानमिवाह्वयन्तम् , समन्तादुद्गच्छदतुच्छरत्नांशुप्रांशुतरगोपुरपक्षोपलक्षितमन्तरिक्षावसाननिरीक्षणकौ - तुकादुड्डयितुमिवेच्छन्तम् , अलङ्घनीयसालशृङ्खलावलयेन विशृङ्खलगतिनिरोधाय निगलितायमानम् , सदातनसलिलभरभरितपरिखाचक्रालवालपयःपरिवर्धितमूलतया स्वयमुत्पादितैरिव सकलर्तुकुसुमफलैः समृद्धम् , समृद्धिमयसौधशिखरपिनद्रपताकाग्रपाणिपल्लवेन शशाङ्कमपि कलङ्करहितं संपादयितुमिव संमार्जन्तम् , क्वचिद्भिद्यमानपद्मरागमणिमहःस्तबकितवियदन्तरालैराकालिकबालातपरेखामारचयन्तम् , क्वचित्कोकमिथुनविरहवितरणनिपुणकिरणापीडगारुडरत्नराशिशङ्कितशर्वरीसमागमसंरम्भम् , क्वचिजालकितगभस्तिजालस्थगितदिङमण्डलैराखण्डलनीलोपलघटिततलैरकाण्डप्रसारितभोजनशालास्थलकदलीपलाशसंशीतिसंपादिनम् , सर्वतश्च सविभ्रमं विहरन्तीनां विद्युल्लतानामिव विद्याधरीणामलक्तकरसाञ्चितचरणन्यासेन रञ्जितं स्वयमपि रागातुरमिव निरूप्यमाणम् , इन्दुभिरिव नन्दितोदयैरुदधिभिरिवोत्तालसत्त्वैमन्त्रिभिरिव मन्त्रसिद्धैः पा