________________
द्वितीयो लम्बः ।
४९
तिरीफलधृतयथावस्थितवाजिनि शिलीमुखविद्धमुखविनियंदविरलरुधिरधारापुनरुक्तसिन्दूरितद्विरदवपुषि निहतनियन्तृकतुरगोपनीतरथहरणलोलुपप्रतिबलकलकलरवमनोहारिणि काकपेयशोणितापगाप्रवाहप्रशमितरणरजसि परिभवनिरसनपरसमरदैवताभिमुखप्रतिशयितदेशीयशरशयनशायियोधके युद्धे केशाकेशितया प्रसजति तद्दशायाम् ' स्वदेशगतः शशः कुअरातिशायी ' इति किंवदन्ती यथार्थो कर्तुमिच्छया वा तुच्छेतरजीवककुमारपराक्रमविषयस्य भावितया वा नाफलबलनिष्ठुरहुंकारभीतः काष्ठाङ्गारवाहिनीनिवहस्तिमिरपरिभूतः पश्चिमदिगङ्गनासंगतपतङ्ग इव प्रतापपरामखः प्रतिसंहृतकरव्यापृतिरपसर्तुमारभत ।
अथ गोधनेन समं यशोधनमपि व्याधेभ्यो विधाय निष्क्रयं निजनारीनयनाभिरामं तिरीफलमूरीकृत्य प्रतिनिवृत्य यथेष्टं काष्ठाङ्गारचमूर्टढतरकरमुष्टिव्याजेन वनचरभीत्या प्रयाणाभिमुखान्प्राणानिव पाणौ कुर्वती प्रविधूतमानभरतया लब्धलङ्घनलाघवेव सत्वरं धावन्ती तपस्येव कुपथगामिनी सामप्रयुक्तिरिव शठजनगोचरा परिश्रममात्रफला सती स्वगृहानतिसंभृतमाससाद । प्रससार च राजपुर्या राजबलचापल्यविषयः संलापः । ततः शबरप्रार्थितं पार्थिवबलमाघ्रातव्याघ्रगन्धमिव गोकुलममन्दावर्तमन्थेन दधीव मध्यमानं शिथिलीबभूव ' इत्यभिषङ्गविधुरैराभीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोषपरिपूरितहरिति वेपथुभरविह्वलकरतलताडितवक्षसि तारदारुणरोदनकर्शितानुधावत्तुकि वात्सल्याश्लिष्टवत्समुखाकृष्यमाणनिजकुचनिशामनपुनरुक्तशुच्यूधस्योत्सुकवत्स - गलविगलदर्धग्रस्तस्वनश्रवणासहिष्णुतापिहितश्रवासि विवेकविकलबालोप. लालनक्लेशताम्यददम्यदशाप्रेक्षणाक्षमताप्रच्छादितचक्षुषि मातृविरंहविघूर्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभमथितदधिबिन्दुदन्तुरपयोधरे पारवश्यविलोठितस्थालीमुखनिर्यदूधस्योदश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे