________________
वादीभसिंहः ।
६५०) दशाधिकषट्छततमाख्रिस्ताब्दादारभ्य पञ्चाशदुत्तरषट्छततमाब्दावधि पालयामास पृथिवीमिति निर्विवादम् । अतो वादीभसिंहसूरिः (६५०) पञ्चाशदुत्तरषट्छततमाब्दात्परमेवासीदिति निश्चेतुं पार्यते।।
परं च, अस्ति भोजचरित्रस्यावसाने भोजराजः कालधर्म गत इति कुतोऽपि मृषोद्यामाकर्ण्य ताम्यता कालिदासेनोक्त इति प्रथां गतः प्रायः संस्कृतभाषाविदां सर्वेषामपि मुखस्थश्चायमधस्तनः श्लोकः
'अद्य धारा निराधारा निरालम्बा सरस्वती। ..
पण्डिताः खण्डिताः सर्वे भोजराजे दिवं गते ॥' इति ।। वादीभसिंहश्च गद्यचिन्तामणौ राजद्रुहः काष्ठाङ्गारस्य दुर्नयेन दुर्मनायमानानामुपरतं सत्यंधरमहाराजमनुशोचतां जनानां प्रलापव्याजेन स्वमन:संदानितानि तदात्वनिष्पन्नानि तान्येव पद्यस्थानि पदानि प्रस्तुतानुगुणं किंचिद्विपरिणमय्य ‘अद्य निराधारा धरा, निरालम्बा सरस्वती' इत्येवं पठितवानिति संभाव्यते । यद्येवं तर्हि धाराधीशस्य भोजराजस्याबाचीन एवायं कविरिति परिणमति बाढम् । विद्वत्प्रियः श्रीभोजराजश्च (९९७–१०५३) सप्तनवत्युत्तरनवशततमाख्रिस्ताब्दादारभ्य त्रिपञ्चाशदुत्तरसहस्रतमाब्दावधि राज्यमकरोदिति सुज्ञातम्। सर्वथोपरितनः श्लोको भोजराजस्य समय एवोदपादीति निर्विकल्पमवसीयते । परं तु कथमस्थ भोजराजस्य समकालः कालिदास इति शङ्का समुत्पद्यते । अयं च भोजप्रबन्धनिर्दिष्टः कालिदासः रघुवंशादिकृत्कालिदास इत्यतिमात्रमसंगतम् । किं तु तत्समाननाम्ना तत्समानप्रभावेन वा तदन्येन भवितव्यम् । आसीद्भोजराजस्य पितृव्यो मुञ्जो नाम नरपतिः । यस्यैवामोघवर्ष इति वल्लभनरेन्द्र इति वाक्पतिदेवराज इति च प्रथन्ते नामान्तराणि । तस्य भ्राता भोजराजस्य जनको विक्रमार्कापरनामा सिन्धुराजः । यमेवाहुनवसाहसाङ्क इत्येके कुमारनारायण इत्यन्ये । आसीदाभ्यामुभाभ्यामपि