SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ तकबलपुष्टः कर्माष्टकरिपुराजसमष्टिं समूलकाषं कषन्कर्मारिनिर्मूलनप्रलयविधानातिशयमिलितपर्जन्यप्रमुखनिर्जरपरिषत्परिकल्पितपरनिर्वृतिमहोत्सवपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिवानध्यानोत्तमप्रदत्तां लयपराचीनपरमानन्दवितरणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिश्रिये । ततश्च तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवचःश्रवणचरितार्थश्रोत्रदूरोज्ज्ञितपितरि निमेपोन्मेषनिरपेक्षनेत्रे लोकद्वयहितोपदेशिमित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजातवेदसं तत्त्वज्ञानजलैर्निर्वाप्य गुणगणगरीयसा कनीयसानन्योपास्यैर्वयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे वारयुवतीनां पौरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां करिरथतुरगप्रष्ठानां पृष्ठेषु च सदा निवसति तदवसरे प्रस्तुतमुच्यते । - . अथ कदाचिदचलमचरममारूढवति भानुमति विधाय विधेयमहर्मुखसमुचितमहमहमिकापतदवनिपतिकिरीटरत्नकिरणनीराजितं राजविजयवर्णनचतुरचारणमुखरितहरितमनिलचलितकदलिकाकलापममलदु - कूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलितमणिस्तम्भमास्थानमण्डपमधिवसन्तं समीपगतवारवामलोचनाचालितचामरमरुदान्दोलितकुन्तलकलापमुलुसदाभरणमणिमहःप्रसरकञ्चकितसकलकाष्ठं काष्ठाङ्गारं धरणीपतिमकुटतटप्रहारजर्जरितशिखरेण निजाधिकारलक्ष्मीलताधिरोहणविटपेन वेत्रदण्डेन चण्डिमानमुद्वहन्प्रदर्शितमुख विकारः प्रतीहारः प्रविश्य सप्रश्रयं प्रणम्येदं व्यजिज्ञपत् - "देव, देवभुजपरिघपरिपालितपर्यन्तेषु कान्तारेषु तरुणतृणचरणरसाकुलं गोकुलमापत्य कुतोऽपि दिगन्तरालादविरलशरासारशकलितगोवपुषः परुषवचसो नाफला बलादाहृत्य गता इति प्रतीहारस्थाने स्थिताः, प्रोतोद्धृतोभयपाणितलप्रणयिपलत्रवशदण्डाः कुञ्चिताग्रचरणस्पृष्टमहीपृष्ठा द्विगुणतरदीर्धीकरणतनुतरशरीराः
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy