SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ षष्ठो लम्बः । १०३ चितोपचारैराराध्य पुनराराद्वर्तिनः कस्यचिदकठोरकङ्केलितरोरतुच्छच्छायायां शौक्तिकजालवालुकमनोज्ञे हृदयज्ञान्तिकचरसत्वरसमीकृतस्थले कुमारमन्वासीनः कुबेरदेश्यो वैश्यपतिर्वात्सल्यौत्सुक्यकौशलशंसिकुशलपरिप्रश्नादिना मुदितहृदये विदितवृत्तान्ते च भवति विजयानन्दने नखंपचपांसूत्करदुःसहाध्वन्याध्वश्रमाश्रितविश्वजनपदपथिकनिबिडितपाद - पमूले कथितसलिलसरःपराचीनतृष्यत्पतत्रिणि मृगतृष्णकाकुलितमृगकुले ललाटंतपे भवत्यम्बरमणौ कुरुकुलशिखामणये गुरुतरनिजमुखप्रसादकण्ठोक्तां निजोत्कण्ठां पुनरुक्तामिव विवत्रे- “कुमार , मयि ते प्रेमकारणमपरमास्ताम् । आस्तिकचूडामणे , तावदनिषेध्यमेवेदं स्वयूथ्यत्वम् । अतस्त्वया मे प्रार्थनावैमुख्येन न सख्यं विहन्तव्यम् । अनुमन्तव्यमेवास्मदावसथे दिवसोचितविधि विधातुम्" इति । सोऽप्यसुप्रणयिनामप्यर्थितामसमर्थो भवन्विहन्तुमत्याहितवृत्तः सात्यंधरिः 'अस्त्वेवम्' इत्यन्वमस्त । ततश्च सर्वगुणभद्रः पवित्रकुमारोऽयं गुणभद्रप्रसारितं पाणिं पाणौ कुर्वन्सर्वसहायाः सहेलमुत्थाय कायरोचिःप्रतिहतसहसरोचिः सहस्रकूटजिनालयं सहस्रशः परीत्य प्रणिपत्य च पुनरप्यतृप्त एव तन्निकटात्सुभद्रनिरोधाद्धटद्धाटककूटकोटिपिनद्वध्वजपटपाणिपल्लवेन क्षेमश्रीवल्लभमिवामन्त्रयमाणं सान्द्रचन्द्रातपातिशायिचन्द्रशालानिलृप्तनिरतिशयरत्नविसरविसर्पिकिरणप्रकरेणेव प्रतिगृह्णन्तं प्रसभोपसर्पदतिघोरपौरुषपदप्रचुरस्तनितानुकारिरणितश्रवणारब्धताण्डवगृहशिखण्डिबृन्देन स्वयमप्यमन्दादरादानन्दनृत्तमिवारचयन्तमत्यादरधात्रीमुखाकर्णितसुभद्रसुता - भर्तृसांनिध्याडितहर्षक्रीडाकीरविरावमिषेणाशिषमिव प्रयुञ्जानम् , पुञ्जमिव संपदः, पूर्तिमिव शोभायाः , मूर्तिीमव कोलाहलस्य , अतिभद्रसुभद्रसदनोद्देशं निरवकाशितजननिवेशं वेशपुरंध्रीनेत्रव्रजविरचितविविधतोरणस्त्रजः समतीत्य समासदत् ।
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy