________________
नवमो लम्बः ।
१२९
जनानन्दकारािण रागराजप्रियसुहृदि राजति रोहिणीरमणे, दुग्धोदधिशीकरैरिव घनसारपरागैरिव मलयजरसविसरैरिव पीयूषफेनपिण्डैरिव पारदरससरिद्भिरिव स्फटिकरेणुभिरिव मदनानलभस्मभिरिव रजनीकरकरनिकरैरापूरिते भुवनविवरे , विकचकैरवपरिमलमिलितालिकुलझंकारविरचितविरहिजनतापे मधुमदमत्तमत्तकाशिनीकेशकलापकुसुमामोदमोदितदशदिशि समाध्मापितप्रद्युम्नपावके मन्दमन्दमावाति मातरिश्वनि , समन्ततः संचरति समारोपितकामुके हृदयभिदि कंदर्पे, संभोगलम्पटदम्पतिसमाजसंभवन्मणिभूषणरणितशब्दमात्रावशेषिते धात्रीतले, पवित्रकुमारः कुवलयैकमोहनं गानमतानीत् ।
गानविद्याविश्रुतस्य तामुपश्रुत्य गीतिम् 'किं नु किंनराः किमुत नराः किं स्विदमरा वा जगत्यनुपमेयं गायन्ति' इत्याहितात्याहितभरा परितः प्रहितनेत्रा तत्र सर्वत्राप्यपरमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृद्धमेव विभाव्य गायकं सहयायिनीभिरमा तत्प्रान्तं प्राविक्षत् । अप्राक्षीच 'प्रक्षीणाङ्गस्य ते गीतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियमनवद्या गानविद्या विद्वन्नुपलब्धा, यच्छक्तितः शमिनि वयस्यपि सर्वलोकश्राव्येयं दिव्यगीतिः । भवत्यपि नामान्यदप्यभीप्सितमुपलब्धमपायोऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धितहर्षः स वर्षीयानपि वार्धकमुन्नाटयन्नुपधानात्कथंचित्किचिदुद्धृतोत्तमाङ्गः प्रक्षीणपक्ष्मकमक्षियुगमप्यतिप्रयासादिवोन्मील्य कफावगुण्ठितकण्ठलाघव इव मुहुः खात्कृत्य घघरेण स्वरेण स्वमनीषितोत्पादनमौपयिकमुपचक्रमे वक्तुम् - " बाले , हेलया गानमिदं साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्ठासि" इति । तद्वचनवञ्चितया सुरमञ्जर्याप्यञ्जलिबन्धेन 'बन्धुप्रिय, को नाम वराको जनः परहितपरैराख्याते वचसि वैमुख्यमुद्वहति' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं