________________
१३०
गद्य चिन्तामण
1
प्राणिनाय 'श्रूयतां तर्हि । इहास्ति समस्तवरदानदक्षस्य साक्षात्कृताङ्गस्य किमप्यनङ्गस्यायतनम् | अद्य वा श्वो वा समुत्थाय तद्गोष्ठं यद्युपतिष्ठेयास्तमनन्यजं किमन्यदुदीर्यते कार्यत एव द्रक्ष्यसि । तत्क्षण एव कामितमखिलं -स कामदेवः साधयेत्' इति । सा च स्त्रीजनसुलभचापल्याद्भवितव्यताप्राबल्याच्च ' तथा ' इति प्रतिश्रुत्य प्रातरेव गन्तुमुदमनायत ।
अथ सुरमञ्जरीपरिरम्भणपर्युत्सुकतया परिगतान्ध्यस्य जीवंधरस्य तदैकस्यामपि त्रियामायां सहस्रयामतां प्रतिपद्य कथमपि प्रयातायाम्, उदिते वृद्धेन समं सवितरि पितरं मातरं बन्धुसमाजं च संवादयन्ती समारूढशकटेन तेन कपटवृद्धेन समं समारुह्य चतुरन्तयानं सखीभिः साकं सा कन्यका तदनन्यजावासमाससाद । तत्र च सादरविधीयमानसपर्याविधेर्विषमेषोः संनिधौ सास्तिक्यमस्यामास्थितायामयमन्त्यवयस्कस्तामामन्त्र्य 'वासु, प्रसादितोऽयमुपासना प्रपञ्चेन पञ्चशरः । त्वदभिवाञ्छितं वरमसहाया स्वयमस्माद्वृणीष्व' इत्यब्रवीत् । सा च मुग्धा बद्धाञ्जलिर्बहुधा प्रणुत्य प्रद्युम्नम् 'अयि पुष्पबाण, ते बाणानेव न केवलं प्राणानपि मे प्रत्यर्पयि - ष्यामि यदि प्राणनाथतां प्रतिपद्येत जीवककुमारः' इति सादरं सप्रणामं च प्रार्थयामास । प्रादुरासीच्च प्रागेव पुष्पायुधसविधे स्थापितेन बुद्धिषेणेन ' लब्धवत्यसि वरम्' इत्युक्तं वचः । अदर्शयच्च तावता कुमारोऽप्यवधीरितमारं निजाकारम् । सा च तमवलोक्य सविस्मयस्नेहमन्दाक्षा मत्तेवोमत्व भीतेव विषण्णेव मुदितेव परवशेवानुरक्तेव स्तम्भितेव समुत्की
विलिखिते विद्रुते शून्येन्द्रियेव स्वेदजलप्लावितसर्वाङ्गयष्टिरतिनिबिडपुलकनिचिता मदनशरपञ्जरमध्यवर्तिनी प्रान्तः प्रविशतः कुमारस्य पादन्यासादिव स्फुरदधरपल्लवा किंकर्तव्यतामूढासीत् । ततस्तावता तयोः संगमार्हमङ्गलप्रदीप इव प्रज्वलति प्रत्यूषाडम्बरे, स्त्रीपुंससंयोगप्रकारप्रकटनायेव घटमाने कोकमिथुने, हुतहुताशनकुण्डायमाने स्फुटित
,