________________
१४०
गद्यचिन्तामणौ
सु च प्रतिप्रदेशं स्वदेशादेशान्तरं कन्याभिनिवेशेन विशतां विशांपतीनाम् “धनुर्धरतमः कतमस्तां लभेत । लब्धवति च चापविद्यालब्धवणे कस्मिंश्चिदिमां कन्यकामन्ये कथमहीकाः स्वगृहं प्रविशेयुः । अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शरगुणनिकां कर्तुं गुणवन्मुहूर्तं पृच्छन्ति मौहूर्तिकान् । इतरे तु 'वयमारचितसमस्तशस्त्रयोग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितंमन्याः कन्यकां हस्तस्थामाकलयन्ति । तावदतिशयितालातचक्रशैघ्रये यन्त्रचक्रे शक्रस्याप्यशक्यमारोहणम् , आस्तां विद्धिः" इति योद्धृषु कथयत्सु , साधीयसि लग्ने स्थापितं यन्त्रमामन्त्रितास्ते विश्वेऽपि विश्वंभरापतयः परिवार्य पश्यन्तस्तदीयचक्रभ्रमणरयमासांचक्रिरे । तेषु केचिदुद्वीक्ष्य यन्त्रमुद्वेगाधिष्ठिताश्चित्रीयाविष्टाश्च त्वष्ट्रातु निर्मीयतां निर्विचारम् । मनसाप्यतर्व्यमेनं मूर्खण केन दुर्वर्णेन कन्यकाया: शुल्कत्वेन कल्पितम्। आकल्पमेतदभेद्यमेव लक्ष्यं द्रक्ष्यामः । तदपि सा च कुमारी स्वकुलगृह एव जरामियात्' इति चिन्तयन्तस्तरुणीलाभबुद्धिं विद्धिं च जहुः । केचिदुद्धताः सलीलमुत्थाय भूतलादाततज्यमापाद्य कार्मुकं करपल्लवाकलितभल्लाः सोल्लासमारुह्य यन्त्रचक्रमदसीयभ्रमणशैघ्यभ्रान्तस्वान्ताः स्वकान्तामवनिमन्याभिलाषविकोकनविहितेा परिष्वङ्गेण प्रसादयितुमिव प्रसभं पृथ्वीतले निपेतुः । केश्चिदभिसंधिपुरःसरमारूढचक्रः संधाय निःसारिताः शराः शरव्यं तरसोपसृत्य लुब्धपार्थिवमिवार्थिनो निष्फला न्यवर्तिषत । कैश्चिदाकर्णाकृष्टचापयष्टिभिर्निसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिकम्य लक्ष्यमन्तरिक्षमुत्पेतुः ।
एवमतिकान्तेष्वर्धसप्तमवासरेघु, क्रमादिष्वासविद्यालब्धवर्णेषु त्रैवणिकेष्वेपरेषु सर्वेष्वपराद्धपृषत्केषु , दिव्यशक्तिकः स जीवककुमारः स्मेराक्षिविक्षेपः , सहस्राक्ष इत्र चक्षुर्द्वयोपेतः, षण्मुख इव दर्शितैकमुखः ,