________________
गद्यचिन्तामण
पीयः क्षितितलपतनमसहमानैरिव मधुलिहां बृन्दरमन्दादराद्गुणहुब्धैरिव गुणाधिके गुणमाला चूर्णे तूर्णमङ्गीकृते भृशमङ्गनास्वासक्तजन इव क्षणादधस्तादपतदपरम् । अवर्णयच्चवायमभियुक्तः 'चूर्णयुक्तायुक्तेतरकालकरणादासीदसुरभित्वं सुरमञ्जरीचूर्णस्य' इति । तदेतदुपलभ्य चेटीमुखात्सुरमञ्जरी, सुरतरुमञ्जरी सुरकुञ्जरभञ्जनादिव जातवैवर्ण्या विवादविरहितसाक्षिभिः साक्षान्निर्णीतेऽपि निजचूर्णगुणक्षये 'गुणमालापक्षपातादुपक्षिताहम् । अपेक्षा यदा जायेत मयि गन्धोत्कटनन्दनस्य तावदहं कटाक्षेणापि क्षे पुरुषान् । वर्षशतं वा विधास्यामि तपस्यां तज्जनदास्यसंपादिनीम्' इति कृतसंगरा सङ्गगौरवात् 'वयस्ये, क्षमस्व दास्याः परिस्खलनम् ' इति पादयोः प्रणमन्तीं गुणमालामपि मालामिव मौलिच्युतामनादृत्यास्नातैव निजसदनैमासदत् । अचीकरच्च पितुराज्ञया पुरुषसंस्पर्शमरुतापि निजमन्दिरान्तिकमस्पृष्टम् । अथ तादृशं तस्याः सख्या वैमुख्यमुपलभ्य तन्निदानं चूर्णविगानमनुशोचन्ती यानमारुह्य नगरबाह्यात्प्रतिनिवृत्य निकटगतचेटीजनचाटुमपि श्रवणकटुकं गणयन्ती गुणमाला शनैः स्कन्धावारं प्रतिगन्तुमारब्धा । तावता समन्ततोधावन्मनुजानाममन्दार्तस्वरैर्मूर्छन् 'गच्छ गच्छ, गजेन्द्रः' इति रुन्द्रस्वनः श्रोत्रेष्वतिमा
मासीत् । आसीदति स्म च सीदतः स्त्रैणस्य तस्य समीपं संहृतसर्वलो - कः, काल इव कलितमूर्तिः, अधोमूर्धगशाबशतकलितगात्रतया स्वयमूर्ध्वगैरैव्यपेत इव पादैः, उड्डीयमानविहङ्गसंगताङ्गतया मङ्घ जवजिघृक्षया पक्षीकृतपक्ष इव लक्ष्यमाणः, क्षितिधर इव लब्धाङ्घिः, अधःकृताधोरणनिवारण ः कोऽपि मदवारणः । ततस्तत्संनिधिना निधिलाभेन नीचपरिज्ञान इव परिजने परिक्षीणे, सरभसमुत्सृज्य चतुरन्तयानं दिगन्तं वहत्सु वाहकेषु, सा दरिद्रमध्या दारिद्र्यादिव सहचरविगमादेकाकिनी तस्थौ । तथा तिष्ठन्तीमिमां दृष्ट्वा गुणमालां प्रियंवदेति तस्याः प्रियसखी 'प्राण --
७८