________________
चतुर्थो लम्बः ।
७९
समामिमां मत्प्राणत्राणाय विहाय कथमपत्रपा प्रयामि । प्रयान्तु ममासवः प्रागेतन्मृतिप्रेक्षणात्' इति पृष्ठीकृत्य तां बिम्बोष्टी बद्धाञ्जलिः कुञ्जरस्य पुरस्तादस्थात् । अवसरेऽस्मिन्नाकस्मिकागतिस्तत्रैव परत्रोपार्जितसुकृतवैभवाद्विभव इव स धीरः कुमारः संन्यधात् । व्यधाच्च तद्दशानिशामनमात्रेण विजृम्भितक्षात्रधर्मः स्वमर्मस्पृगुपद्रवविद्रावणप्रवण इव प्रगुणं गुणमालारक्षणाय तत्क्षणे प्रयासम् । पुनः प्रतिमल्लविलोकनादुल्लोकरोषोद्धरस्य सिन्धुरस्य दान्तये दन्तयोर्मध्ये निजमणिकुण्डलशैलेन गण्डशैलेनेव प्रचण्डं प्राहार्षीत् । अनन्तरमन्तरिततजिघृक्षावेगो वेतण्डश्चण्डरोषप्रसारितशुण्डः शूरप्रकाण्डस्य तस्याभिमुखमभ्यवर्तत, प्रावर्तत च प्रहर्तुम् । तादात्विकोपायप्रयोगचतुरः कुमारोऽप्यनेकपमनेकप्रकारमायास्य परिणमति तस्मिन्करिणि चरणमध्येन प्रविश्य पृष्ठतो निरगच्छदतुच्छधीः । सा च मोचितापि कुमारेण मोचासमोरुमारमातङ्गकृतातङ्का समजनि । जनितमदनवेदनाविवशाङ्गी तन्वङ्गी तत्क्षणसमानीतमनुयायिभिरधिरुह्य चतुरन्तयानमन्तःप्रविष्टं कुमारमवलोकयितुमिवाधोमुखी, मुहुर्मुहुरापतद्भिनि:श्वासैरत्युष्णतया मर्मरिताधरपल्लवैराकुलितकुचोत्तरीया, निरुत्तरतया दत्तनमगिरः प्रियसखीः खेदयन्ती विवेश विविधसंनिवेशकान्तं निशान्तम्।
__ अथैनां तुहिनपरामर्शपरिम्लानपङ्कजिनीसच्छायां सत्वरमुपेत्य माता दुहितरं दुःखदीनाक्षरमप्राक्षीत्-" मातः, किमिति भवती कठोरतरतरणिकिरणतापितमृणालिनीव ग्लानिमनुभवति । निवेदयन्ति च नितान्ततीव्रनिःश्वासमरुतः स्वान्तसंतापम् । करिकदर्थनादतो भवत्याः किमस्त्यन्योऽपि मन्युहेतुः" इति । एवमुक्तापि प्रतिवचसा नाश्वासयामास मातरं मदिराक्षी । अथाधिक्षीणायामभिषङ्गादङ्गजायाः किमनङ्गाक्रमणेन किंस्विगहाणां ग्रहणेनाहोस्विदपरेण केनापि वा विकारोऽयमाविरासीदिति वितर्कविह्वलमनसि गतायां मातार , सहपांसुक्रीडापरिचयपेशल'