________________
गद्यचिन्तामणौ
प्रियसखीराप निद्रामिषेण विद्राव्य समुत्सारितसकलपरिवारा प्रविश्य शयनगृहं शयनीयनिपतिताङ्गी निरङ्कुशनिपतदनङ्गशरनिषङ्गीभूता प्रभूतकुमारसौकुमार्यसंपदनुस्मरणसरणिसंचरदन्तःकरणा तदुपलम्भोपायान्वेषणलम्पटमतिः क्रीडाशुकं शोकप्रहाणये पाणौ कुर्वती सर्वमस्मै समीहितमावेद्य विद्यते किमत्रोपाय इति सप्रणयं सकृपणं सानुनयं सवीडं चान्वयुङ्ग । स च कीर: 'किमम्ब, कातर्येण । कार्यमिदमवनौ चेत्पार्यत एव मया साधयितुम्' इति सधीरं समभ्यधत्त । सा च मदनकृतोन्मादा प्रमदा प्रमाणस्य परां कोटि क्रीडाशुकवचसा सद्यः समासाद्य तमेव सात्यंधरिसकाशे ससंदेशं प्राहिणोत् । स च विहङ्गमो विहायसा सहसा पतन्परितः परिभ्रम्य परिश्रमच्छेदाय गन्धर्वदत्तागृहोद्यानगतस्य कस्यचित्कबलिताकाशावकाशस्य शाखिनः शाखाग्रे सविषादं निषीदति स्म ।
" स चापहसितमदहस्तिमदाडम्बरः कुमारः पुनर्मारकरनिपतदासारकुसुमपत्रिपतनपरवशगात्रः, कर्तव्यान्तरं विस्मृत्य विविधप्रयोगचतुरसहचरचारुगोर्ध्वपि गजनिमीलनं कुर्वन् , गुरुतरगुणमालाभिलाषभारवहनखिन्न इव स्विन्नवपुः, अत्युष्णमायतं च निःश्वस्य निजावसथमभ्येत्य निवारितनिखिलानुयायिवर्गः स्वर्गौकसामपि दुरासदं निजसदनोद्यानमासदत् । तत्र कचित्प्रच्छायशीतले महीतले निषण्णो विषण्णहृदयः स्वहृदयनिविष्टां तां बिम्बोष्ठी तत्कामिनीरूपमभिरूपोऽयमखिलकलासु कचिदतिविशङ्कटे पटे प्रकटिततदवस्थमालिखत् । अथ तामालेख्यगतामन्यादृशाभिख्यामतिदीननयनामधिकपरिम्लानवदनामागलितवसनामत्यु - ल्बणव्यसनामव्याजकरुणावहां गुणमालामालोक्य कुरुवंशशिखामणिरहो महिमा मकरध्यजस्य साक्षादिव तां संनिहिताममन्यत । यतस्तां पञ्चशरवञ्चितोऽयमवाञ्छदालिङ्गितुम् , आरभत तस्यै किमप्यावेदयितुम् , विषीदति स्म तस्यां जोषमवस्थितायाम् ।