SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुथो लम्बः । एवमवस्थान्तरं गच्छत्यतुच्छतदासङ्गात्सत्यंधराङ्गजे तुङ्गतरतरुशिखरनिलीनः स केलीशुकः साकूतं ससंभ्रमं च संभ्रमन्तमेनं प्रसारितशिराः सुचिरमुत्पश्यन् 'अयमेवास्माभिरन्विष्टो विशिष्टः । स्पष्टमयमप्याविष्ट इव मदनग्रहेण । गुणमालया भणितमिदं चिह्नमप्यह्रायास्मिन्नविसंवादमश्नुते । ततस्तमुपसमि' इत्यारचितविचारः कुमारनिकटमाटीकते स्म । कुमारोऽपि सविस्मयं साशकं च सपत्रमेनं पत्रिणमुद्वीक्ष्य 'न केवलोऽयम् । न हि निराशकं विहङ्गममात्रस्य त्रासान्निवर्त्य मर्त्यसनीडगतिर्जाघटीति । बाढमनेन च क्रीडाशुकेन भवितव्यम् । किंचायं शुकः किंशुकातिशायिचञ्चपुटे धत्ते किमपि पत्रमपि । दिष्टया सापि किमस्मद्यते यास्मानित्थमुन्मत्तयति । अचिन्त्यानुभावं हि भवितव्यम् । पुष्पबाणोऽपि वा निष्फलप्रयासः किमस्मास्वेव सायकं संधत्ते । संगमयितुमावां समुत्सुकस्य तस्य तस्यामपि विद्धायां हि मनीषितसिद्धिः' इतीत्थमन्यथाप्यमन्यत । तथा मन्यमानं मारमहनीयं कुमारमादरादभिप्रणम्य सप्रश्रयं समर्पितसंदेशः समुत्क्षिप्य दक्षिणं पादं पद्यमिदं पपाठ क्रीडाशुकः ___ 'विषयेषु समस्तेषु कामं सफलयन्सदा । गुणमालां जगन्मान्यां जीवयञ्जीवताच्चिरम् ॥' तदुपश्रुत्य विश्रुतविश्ववैदुष्योऽयममुष्य पाण्डित्यमतिचतुरं संभाव्य ससंभ्रमं संदेशं वाचयामास । आसीच्चास्य तत्कन्यालिखितमनन्यजसंजातसंज्वरस्य संजीवनौषधम् । अबुध्यत चात्मानमवन्ध्यप्रयासं गन्धोत्कटसूनुः । प्राणैषीच्च स मनीषी मनीषितार्थसमर्थनपरचतुरवचनगर्भप्रतिपत्रलाभेन प्रगुणप्रहर्षे गुणमालासनीडे क्रीडाशुकम् ।। सा च तदागमनं प्रतीक्षमाणा प्रतिक्षणविजृम्भमाणोत्कण्ठा किमयं शुकस्तं जनं पश्येत्समीहितमपि नाम साधयेत् । कदा वा समागच्छेत् ' इत्युत्पन्नमतिरुद्रीवा चातकीव जीमूतागमनास्था गगनं समुद्वीक्ष्य
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy