________________
<२
गद्यचिन्तामण
सर्विषादं निषसाद । तथा निषीदन्तीं निरन्तरनिपतदायलकभल्लुबाहुल्यादकल्यामकल्याणाकृतिमादरादालोक्य शुकस्तां विच्छायां मानमवच्छेतुमलं प्रगल्भस्तल्पशरणां गुणमालां समभ्यगमत् । तथा सा च तमन्तरिक्ष एव वीक्षमाणा प्रसभं प्रतिगृह्य बाढं परिरभ्य हर्षाश्रुभिरध्वममिवापहर्तुमभिषिञ्चन्ती मुञ्चन्ती रोमाचं मुहुः शिरस्याघ्राय मुहूर्तमुद्दामसंभ्रमा वामोरुर्वामाक्षिस्पन्देन परिचितनिमित्तलाभेन प्रागेव सूचितशुभागमा शुकमुखप्रसादोक्तां पुनरुक्तां समीहितसंप्राप्तिं सात्यंधरिसंदेशतः संदेहविकलमाकलयत् ।
ततस्तां मनुभाषिणीं किंचिद्गलद्वैमनस्यां वयस्यामुखेन वसन्तबन्धुविकार चिह्नेन जीवंधरगतास्थया समुपस्थिततदवस्थां समुपलभ्य पितरौ भृशं प्रीणन्तौ ' गुणमालैव सत्यमियं गुणमाला, यदियमपहस्तितास्थानगतास्था सर्वथा योग्ये भाग्यादृते दुर्लभे वल्लभबुद्धिं बध्नाति' इति स्फारमुपलाल्य दुहितरं तत्कल्याणपरायणावभूताम् । प्राहिणुतां च गन्धोत्कटसविधे विविधवैदुष्यावामुष्यायणौ वर्षीयांसौ पुरुषौ । तावपि सादरमरमभ्येत्य तमिभ्यपतिमियत्तादूरमितरासंभवं तेन संभावितौ च ' तत्रभवतो: किमत्रागमने प्रयोजनम् । नियोजयतां समीहिते मां कर्मणि' इति सानु - नयमनुयुक्तौ च मुहुर्वक्तुमीप्सितमुपाक्रंसाताम् – “अयि महाभाग, धात्रीतले 'तव पुत्राय नः पुत्रों समर्पयाम' इति न प्रसर्पति व्यवहारः । तथापि भवतस्तनयस्य भुवनप्रतीक्ष्यत्वादपेक्ष्यतेऽस्माभिरयमर्थः । श्रुत्वेदमत्रभवानत्र प्रमाणम् ” । इति सकृपणं सप्रणयं च ताभ्यां प्रणीतं वणिक्प्रवेकः प्रतीच्छन् 'अस्तु को दोष:' इत्यभ्युपागच्छत् ।
अथ गन्धोत्कटे तयोरत्युत्कटप्रार्थनया तमर्थमभ्युपगतवति, प्रतिक्षणसमापतद्बान्धवशतसहस्रसमाकुले प्रणयिजनप्रेषितप्रभूतप्राभृतभरितखलरी परिसरे प्रकृष्टशिल्पिलोक कल्प्यमानपरिकर्मविकल्प कमनीयनिवेशे