SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चतुर्थो लम्बः । - ७७ परिच्छेदः । कृतार्थीकृतस्त्वयाहमिति त्रिभुवनकार्तार्थ्यविधायिनस्ते विशेषसमर्थनम् । साक्षादसि प्रत्यक्षसर्वज्ञ इति चरमदेहधारिणस्ते सिद्धानुवादः । समाश्रितकल्पद्रुमोऽसीति निशितप्रज्ञावधृतपात्रप्रकर्षस्य ते निकर्षः। भवति पर्यवस्यति परोपक्रियेति स्वभावव्यावर्णनम् । साक्षादकारि कारुण्यस्वरूपमिति कार्यपुनरुक्तम् । उदात्तशैलीयमिति ज्ञातज्ञापनश्रमः । तथापि हि किमप्यावेद्यते । आगतवति कृच्छ्रे क्वचिदनुस्मतव्योऽयं जनः" इत्यभिधाय कृतप्रणामः सप्रणयं परिष्वज्य परोक्षतामभाक्षीत् । ___अथान्तरितवति तस्मिन्नुपान्तवर्तिनः कस्यचिदुद्यानतरोरधस्तादवस्थाय कुमारः प्रस्तुतदेववृत्तान्तममन्दादरादनुजवयस्यैः सममावर्तयन्मुहूर्तमत्यवाहयत् । अत्रान्तरे राजपुरवासिवैश्यपतिसुतयोः सुरमञ्जरीगुणमालयोः परस्परं स्पर्धा भृशमवर्धिष्ट । अतानिष्टां च ते संविदं विदांवरमुखादाकर्णिते चूर्णे पराजयः स्यादावयोर्यस्यास्तया नादेयजलस्नातया न भवितव्यमिति । प्राहिणुतां च निजचूर्णोत्कर्षनिकर्षनिर्णयाय लब्धवर्णाना मभ्यर्णमात्मपरिचारिके । ते च निखिलकर्मनिर्माणपटिष्ठे चेट्यौ दिशिदि'शि परिभ्रम्य परिसरं कुमारस्य सादरमुपासरतामभ्यधत्तां च दत्ताञ्जलि पाणितलप्रणयितपनीयकरण्डकगते स्नानीयचूर्णे प्रदर्य 'कथय मिथो विशेषमनयोः' इति । तद्वचनसमाकर्णनेन निर्वर्ण्य चूर्णे तूर्णमसौ गुणज्ञः ‘सगुणमिदं गुणमालाचेटिकायाश्चूर्णम् ' इत्यवर्णयत् । श्रुत्वा तद्वचनं सुरमञ्जरीपरिचारिका परिकुपितहृदया सती 'भवदादिष्टमतिवैशिष्टयं विशेषदृष्टेः प्राक्कस्यचित्कथमवगन्तव्यम् । परोऽपि जनः पृष्ट एवमन्यथा व्याचष्टे स्म । किमध्यैष्ट भवानप्यमीभिरेवम् । ननु जीवक एव जीवलोके विवादपदनिर्णायीत्याकर्ण्य खलु भवति तिष्ठावहे' इत्यभाषिष्ट । सात्यंधरिरपि 'सत्यापयामि तर्हि मदुक्तम् ' इति तदुभयमुभयकरण गृहृन् ‘गृह्णन्तु चञ्चरीकाश्चूर्णमञ्चितमञ्जसा' इत्युदीरयन्नुपरि चिक्षेप । क्षे
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy