SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७६ गंध चिन्तामणी रोपितकुन्तलपुनरभिहितावतंसकुवलया वकुलदामनियमित केशपक्षास्तत्क्षणदृढघटितमेखलाबन्धबन्धुरनितम्बबिम्बाः सुदूरसमुत्सारितपारिहार्यरिक्तमणिबन्धाः प्रेमान्धदयितभुजशिखरनिवेशितबाहुलता युवतीश्च सविलासं सहायासंदर्शयन्दर्शनीयकायकान्तिश्चिरं विजहार । तथा विहरतस्तस्याग्रतः क्वचिदग्रजन्मनामतिमहान्कोलाहल: प्रावर्तत । तदाकर्ण्य तदभ्यर्णमभिपतति समित्रे पवित्रचारित्रेऽस्मिन्क्वचिदादरनिष्पादिताहाराघ्राणकुपितधरणीसुरकरतलकलितदण्डोपलघटनविघटिततनुरतनुवेदनावेगोत्क्रामदसुराससार सारमेयः सरणिमक्ष्णोः । तन्निरीक्षणक्षणोपजृम्भमाणकरुणः कारुणिकानामप्रेसरः कुमारः सारमेयोऽयमपगतासुप्रायतया प्रत्युज्जीवयितुमशक्य इति निर्णीय तत्कर्णमूले सादरं सत्वरं सानुक्रोशं च मूलमन्त्रमुपादिक्षत् । उपदिष्टं च दिष्टया तदवस्थोऽपि तरलितवालधिरुत्कर्णः समाकर्णयन्नेव सारमेयः शरीरमत्याक्षीत्, प्राविक्षच्च दैवीं तनुम् । ततो मुहूर्तमात्र एव पूर्ण गात्रस्तत्रैव तथाविधदिव्यतनुलाभमूलकारणकुमारावलोकनकुतूहलादागत्य तथा जपत एवास्य पुरस्तादस्थात् । अस्तोककायगभस्तिप्रसरैरालिम्पन्तमम्बकयुगमेनं दृष्ट्वा कुमारोऽयं विस्मयाविष्टः पृष्टवान् – 'आचक्ष्व भद्र, न चेदेष दोषः कस्त्वं कुतस्त्यः कस्मादस्मत्समीपमागतोऽसि ' इति । स च प्रत्यभाषत भषणचरः–“कुमार, विद्धि माममुमेव सारमेयम् । सारगुणधाम्नस्तव म हिम्ना नाम्ना सुदर्शनः सन्प्राविक्षं यक्षकुलाधिपत्यम् । भवत्पादसेवाकृते च कृतमिदमागमनम् । किमिह मया कर्तव्यं किं वा वक्तव्यम् । का वा भवदनुभावं कथयितुमलं भारती । तथाहि – निष्कारणमिदं मत्परित्राणमिति सति कार्पण्यकारणे रिक्तं वचः । दृष्टो मन्त्रस्य महिमेति जिनशासनलघूकरणम् । ईदृशसामर्थ्यशालिता नाश्रावि कचिदित्यपि न वार्तम् । प्रतिनियतसामर्थ्या हि पदार्थाः । अचरमोऽयमुपकार इति भवदवधान
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy