SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुर्थो लम्बः । हविशीर्णमाल्यकुसुमपुलकितशयनम् , अतितारसीत्कारविडम्बितमदनमौरिसितम् , आकस्मिकप्रणयकलहविहितपादप्रहाररणितमणिनूपुरम् , अश्रान्तवर्धमानकुतूहलम् , अतिवेलं सुरतमन्वभवत् । ___ इत्थमनुभवति संसारसौख्यसारान्सारङ्गशा तया सह तस्मिन्रतिविलासान्विषमशरस्य साचिव्यमिवारचयितुमाजगाम जगतीरुहशिखरशेखरैः खरेतरकिसलयराशिभिरुपशोभितवनान्तो वसन्तः । प्रविशति भुवनगृहमनङ्गनृपसामन्ते वसन्ते पुण्याहमिवोच्चारयांबभूवुरुद्भूतकलरवमुखरितकण्ठाः कलकण्ठाः । क्रमेण च विकचकुसुमनिचयपरिमलितदशदिशि, मनोरथाधिकमकरन्दलाभमत्तमधुकरम शिञ्जितमुखरितवनभुवि, नवसहकारकन्दलदलनकेलीदुर्ललितकलकोकिलगलगुहागर्भसंचितपञ्चम - प्रपञ्चितपञ्चशरवेदनावेगविवशविरहिणि, विहरमाणदक्षिणसमीरणतरलिततरुणपल्लवचूडालचूतविटपिनि , स्फुटितपाटलीकुसुमपाटलिमपल्लविताकाण्डसंध्यासंपदि, समुन्मिषितकोरकपुलकितकुरवकमनोहारिणि, मन्मथमहोत्सवसमारोपितमणिप्रदीपसहचरितचम्पकशाखिनि, चञ्चरीकचक्रचरणाक्रमणपतदविरलसुमनोभरसमुन्नतवकुलतरुशिरसि, प्रभञ्जनप्रकम्पितकरञ्जशिखरविकीर्यमाणसुमनःसूचितकुसुमशरसहचरागमहर्षविहितवनलक्ष्मीलाजवर्षे, प्रकृष्यमाणे मधुसमये, अभिनववनापगावगाहनकेलीदोहलतरलितमनसः पौराः सह पुरंध्रीभिर्नीरन्ध्रितककुभस्तुङ्गान्मातङ्गान्मनोहारिणीः कारिणीः शातकुम्भाङ्गाञ्शताङ्गाशितखुरदारितमहीरङ्गांस्तुरङ्गांश्चामीकरपत्रभङ्गचतुरोपान्तानि चतुरन्तयानानि च समधिरुह्य सादरं नगरान्निरममन् । तस्मिंश्च समये समस्तजननयनजीवातुर्जीवकस्वामी सह सुहृद्भिर्नगरजननवीननदीपूरविहारविलोकनाय विनिर्गत्य पुरोपकण्ठाक्रीडेषु क्रीडापरवशानि पादपमूलरचितकिसलयशयनाभोगानि भोगभूतदम्पतीकल्पानि कलितकामदोहलानि युगलानि सलिलावगाहनसमुद्यताः कर्णशिखरसमा
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy