________________
अष्टमो लम्बः ।
११९
श्रमादाश्रित्य तत्रत्यानशेषानपि विशेषान्पश्यन्तः कचिदपश्याम नश्यद्रूषामपि भूम्ना देहसौन्दर्यस्य दर्शितदेवमातृगौरवां कामपि जगन्मातरम् । पुनरनया दयाजनन्या 'मान्याः, यूयं कल्याः' इत्यत्यादरमनुयुक्ता वयमत्र प्रत्युत्तरमुदीरयितुमुपक्रम्य 'देवि, वयममी राजपुरीवास्तव्यवैश्यपतिसूनोर्दीनजीवजीवातोर्जीवककुमारस्य सुहृदः किल । अस्मद्दुष्कृतबलेन कृतघ्नप्रष्ठः काष्ठाङ्गारो नाम राजापशदः कदाचिदमुष्य पराक्रमममृष्यन्केनापि दोषमिषेण कुमारमेनं मारयितुम्—' इत्येतावदवोचामहि । तावता तद्देव्याः संजातामापदमिरंमदाविद्धशयोरिवेत्थमितिवक्तमिदानीमपि न जानीमहे । पुनरतिप्रलापतुमुलोपस्थितसत्रासतापसपत्नीपरीतोपकण्ठमाक्रन्दविशीर्यमाणकण्ठमालोकनोत्कण्ठमानवटुपेटकमत्युत्कट - कोलाहलपलायमानपर्णशालाङ्गणकुरङ्गगणमतिकरुणरोदननिदानप्रश्नैक - तानमुनिबृन्दं च तदमन्दव्यसनमनुभवन्तीयमखिलजगदम्बिका तदानीमम्बुमुचां पतिः स्तनितेन समममृतमिव परिदेवनेन सह देवस्य वृत्तान्तमपि यथावृत्तं जगदभिवृद्धये प्रकटयामास । वयं तु पुनरिदंतया विदितदेवोदन्ताः कन्दलितानन्दकन्दाः 'कथमन्यदुपक्रान्तमन्यदापतितम् । अहो धन्या वयमद्य संजाताः' इत्यन्योन्यस्य मुखमीक्षमाणाः क्षोणी चाभवदस्मदधीना । कीनाशमपि काष्ठाङ्गारं काष्ठमिवाशुशुक्षणिराशु भस्मसात्कारष्यामः' इति वदन्तः परस्परं तां धिक्कृतां धैर्येण , हुंकृतामहंकारेण , भसितां भाग्येन , धर्षितां प्रहर्षेण , विस्मृतां स्मितेन , वञ्चितां विवेकेन, सजुगुप्सां स्त्रीजन्मनि , सापलापां पुण्येषु, सक्रोधां वेधसि , सलज्जां जीवितव्ये, सत्रासां पुत्रलाभे, दर्शितदुरवस्थां देवीम् ‘देवि, मा भैषीरेवम् । न मारितः स कुमारः । किंतु मारयितुमभीष्टोऽयं केनापि विशिष्टेनास्मद्दिष्टया तत्क्षण एव संरक्षितः कापि क्षितौ सुखेनास्ते । तदर्शनास्थया प्रस्थिता वयमप्युपस्थास्यामहे चाद्यश्वस्तमवश्यम् । देवि, त्वं च द्रागेव