SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११८ गद्यचिन्तामणौ त्वरितमुपसृत्य परीत्य तस्थौ । तावता त्रिभुवनभयंकरेण चापटंकारेण जगदभयंकरस्यास्य कोदण्डकोविदस्य सांनिध्यमवबुध्य तस्य कोपादात्मानं गोपयितुकामास्ते गोकुलदस्यवो वयस्याः सरभसोत्खातनिजहृच्छल्यानीव स्वनामाङ्कितशल्यानि पुरस्कृतपुङ्खानि शिलीमुखजातानि कुमाराभिमुखं प्रायुक्षत । प्रणेमुश्च ते प्रसभमुपसृत्य स्वनामचिह्नितमुखाञ्शिलीमुखान्विलोक्य विचारस्य विस्मयस्य प्रमोदस्य कौतकस्य मोहस्य च योगपद्येन पात्रीभवतः पवित्रकुमारस्य पादयोः पद्ममुखप्रमुखाः सखायः । बभूव चायं बहुसहस्राक्षो बहुधा विभक्तमिवात्मानं मित्रलोकमवलोकयन्पवित्रकुमारः । सखायश्चासन्सौख्यातिशयेन तदभ्याशप्रवेशलब्धेन सनिमेषा अनिमेषाः । अथास्मिन्सौरभेयीगवेषिणि सुदर्शनसुहृदि, सुहृदामुपलम्भादेधान्वेषिणि मणिलाभादिव स्फीतमुदि, वनमतीत्य मित्रपेटकेन लालाटिकैरप्यमा हेमाभपुरीमवगाह्य नागरिकनयनसुमनोञ्जलीन्ग्राहंग्राहं निजगृहमीयुषि 'मुषितोस्राश्चोरवदमी कारागृहे किं न निगलनीयाः' इति लालयन्तीममन्दप्रेमान्धां सगन्धां कनकमालामिव कनकमालामतिलोकबान्धवसंबन्धिसमाजं च समालोक्य चरितार्थीभवति वयस्यसार्थे , कदाचिदयं सुदर्शनमित्रः ‘स्वमित्राणामतिमात्रबहुमत्याः कोऽत्र हेतुः । अस्मदीयक्षत्रता किमवगता । किंस्विदन्यदमीषां बहुमतेरायथापुर्ये निदानम्' इति संशयानस्तत्परीक्षणाय दत्तक्षणः कचिद्रहस्योद्देशे वयस्यान्पप्रच्छ 'यूयमिहागच्छन्तः केन पथा समायाताः । कानि वा वर्त्मनि कौतुकास्पदानि पदानि दृष्टानि' इति । तथा पृष्टानां वयस्यप्रष्टोऽयं प्रदर्शितप्रश्रयोत्कर्षो व्याहार्षीदेवं हर्षोत्फुल्लमुखः पद्ममुखः- “देव , देवस्यान्वेषणाय वयमश्वीयपणायिनामवलम्ब्य धुरं राजपुर्या विनिर्गत्य त्रिचतुरवासरैः कुसुमामोदवासितहरिन्मण्डलं दण्डितकुसुमकोदण्डं दण्डकारण्यान्तर्गतं कमपि तापसाश्रममध्व
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy