SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ २ गद्य चिन्तामण व्यक्तानुवर्तनतिरस्करणौ प्रजानां श्रेयः परं च कुरुतोऽमृतकालकूटौ । तद्वत्सदन्यमनुजावपि हि प्रकृत्या तस्मादपेक्ष्य किमुपेक्ष्य किमन्यमेति ॥ ८ ॥ निःसारभूतमपि बन्धनतन्तुजातं मूर्ध्ना जनो वहति हि प्रसवानुषङ्गात् । जीवधरप्रभवपुण्यपुराणयोगा - द्वाक्यं ममाप्युभयलोकहितप्रदायि ॥ ९ ॥ गीर्वाणाधिपचोदितेन धनदे नास्थायिकामादरा त्सृष्टां द्वादशयोजनायततलां नानामणिद्योतिताम् । अध्यास्त त्रिदशेन्द्रमस्तकमिलत्पादारविन्दद्वयः प्राग्देवो विपुलाचलस्य शिखरे श्री वर्धमानो जिनः ॥ १० ॥ तत्रासीनममुं त्रिलोकजनतासंसारजीर्णाटवी दावं दुर्मत धर्मतापहरसद्धर्मामृतस्राविणम् । राजा श्रेणिक इत्यशेषभुवनप्रख्यातनामा नमन्दूरानम्रकिरीटताडिततलस्तुष्टाव हृष्टाशयः ॥ ११ ॥ तत्त्रस्थं चतुराश्रमस्थपुरुषानुष्ठेयधर्मस्थिति व्याख्याव्यापृतिदृश्यमानदशनालोकं गणाधीश्वरम् । वन्दित्वा मकुटावतंसकुसुमामोदेन लिम्पन्मही मप्राक्षीत्किमपि क्षमापतिरथ स्पष्टीभवत्कौतुकः ॥ १२ ॥ नानाभोगपयोधिमग्नमतयो वैराग्यदूरोज्झिता देवा न प्रभवन्ति दुःसहतमां वोढुं मुनीनां धुरम् । इत्याहुः परमागमस्य परमां काष्ठामधिष्ठानव स्तद्देवो मुनिवेषमेष कलयन्दृश्येत कस्मादिति ॥ १३ ॥
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy