________________
॥ श्रीः ॥
गद्यचिन्तामणिः।
प्रथमो लम्बः ।
श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १॥ प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥ आतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे । यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमाः ॥३॥ अशेषभाषामयदेहधारिणी जिनस्य वक्राम्बुरुहाद्विनिर्गता । सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥ सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ॥ ५ ॥
श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुर्मम सदा हृदि संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि
वादीभसिंहमुनिपुंगवतामुपैति ॥ ६ ॥ स्नेहप्रयोगमनपेक्ष्य दशां च पात्रं .
धुन्वंस्तमांसि सुजनापररत्नदीपः । मार्गप्रकाशनकृते यदि नाभविष्य
सन्मार्गगामिजनता खलु नाभविष्यत् ॥७॥