________________
दशमो लम्बः ।
१४७
आलोलकर्णपल्लवालम्बिवालचामरकलापामलकार्तस्वरकल्पितालंकारका - न्तां चारुकोमलपुष्करकरां ससंभ्रममाधोरणसमुपनीतां साक्षान्मूर्तिमतीमित्र जयलक्ष्मीं जयलक्ष्मीं नाम करेणुकामारुह्य हंसतूलमृदुचीनपट्टोपधाने परिस्तोमवति विचित्ररत्नचित्रपर्यन्ते सुविहितप्रस्तररमणीये महति कनकपर्याणके सुखनिषण्णः पश्चिमासनगतेन हेमाङ्गदवलयरत्नदीधितिस्तबकचित्रवारवाणेन कुलक्रमागतेन स्निग्धेन शीलवता शौचाचारयुक्तेन प्रथमानमित्रेणोह्यमानस्य मध्यार्पितमहामणिमयूखपटलपाटलितस्य बालातपर
क्तशारदबलाहकानुकारिणश्चामीकरदण्डस्य प्रलम्बतरस्थूलमुक्ताकलापस्मेरपर्यन्तस्य महाश्वेतातपत्रस्य निसर्गशिशिरच्छायया निवार्यमाणमार्तण्डकरावलेपः पार्श्वक रेणुसंश्रिताभिरतिमनोहराकाराभिर्वारवनिताभिरतिमधुरं गायन्तीभिर्विनोद्यमानः सकुतूहलपौरसुन्दरीजालमार्गप्रसृतलोचनसहस्रसंछादितामुदञ्चदुत्पलप्रचयमेचकामिव भवनदीर्घिकां राजवीथीं जगाहे ।
तावता तदवलोकनकुतूहलोद्भवदुद्दामसंरम्भाश्चरणयोः प्रथमं परिस्पन्दमानं चरणमन्यस्मान्मान्यतरं मन्यमानाः, अग्रभावि पूर्वाङ्गमनुलग्ना - दपराङ्गादधिक गौरव कलितमाकलयन्त्यः, करणेष्वपि पुरः प्रयाणनिपुणमन्तःकरणमतिकृतार्थं वितर्कयन्त्यः, सरभसगमनविरोधिनः स्तनभारात्तनुतरमनुकूलमवलग्नं श्रद्दधानाः स्वाङ्गभ्रष्टान्यवशिष्टेभ्यो लाघवपोषीणि भूषणान्युपकारीणि गणयन्त्यः समागत्य स्फुरदतिरागमनोहराधरपल्लवाः वल्लर्य इव कुसुमामोदमहिता माधवसंगमकृतासङ्गाः, चलद्वलीभङ्गतरङ्गभासुरा रसमय्यः सरित इव सरित्पतिम् कण्टकनिकरदन्तुरितवपुषः सतिलका वनभुव इव महीधरम्, चारुचन्दनपत्रलताङ्किता मलयमेखला इव दक्षिणजगत्प्राणं वीरश्रीप्राणनाथं प्रमदाः समासदन् । तासां च सदावलोकन कौतुकविद्वेषे निमेषेऽपि वैरायमाणानाम्, असंजातसर्वाङ्गनेत्रं मनुष्यसर्गे हृदा गर्हमाणानाम्, तादृशभागधेयभाजनमात्मानमपि श्रद्दध
"
"
"