SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पञ्चमो लम्बः । अथ कुण्ठीभूतसकलभैषज्यप्रयोगजनितलज्जेषु वैद्येषु, बहुदिव - सपरिहृतक बलग्रहक्षीणवपुषि विलङ्घितनिजवचनविषण्णनिषादिनि नितरां सादिनि दन्तिनि, तस्य तथाविधविकारकारणमाधोरणा जीवककृतां कुण्डलाहतिमेव समाकलय्य पापिष्ठाय काष्टाङ्गाराय सावेगमावेदयामासुः । स च शबरचारभटशूरगृहीतगोधनपुनरानयनप्रकटितपराक्रमपाटवाहितेन ८५ निजवारवामलोचनावर्गान्तरङ्गीभवदनङ्गमालाङ्गीकरणप्ररूढेन गन्धर्वदत्तापरिणयनसमय संजातपरिभवपरिणतेन निजाधोरणनिवेदितवारणाहतिश्रवणसमीरसंधुक्षितेन स्फुटितजपाकुसुमपाटलनयनप्रभापटलच्छलादतिप्रभूततया हृदयादपि बहिर्निर्गच्छता तुच्छेतरेण कोपहुतवहेन प्रलयसमयविसृमरप्रगुणकिरणकलापकबलि दिक्परिसरः पतिरिव तेजसामशेषजननयनदुर्निरीक्षत्र्यक्ष इव त्रिभुवनपरिक्षयचिकीर्षुराविष्कृतभैरवाकृतिरमर्षल क्ष्मीप्रवेशमङ्गलमणितोरणसविभ्रमभ्रुकुटिबन्धेनान्धकारितललाटफलकः परिसरवर्तिनः पुरुषानादिक्षत् ' आनीयतामनेन क्षणेन दुरात्मा जीवकः ' इत्यारूढकोपकाष्ठः काष्ठाङ्गारः । तेऽपि तनया इव यमस्य प्ररोहा इव साहसस्य, प्रकर्षा इव पराक्रमस्य, विग्रहा इव सामर्थ्यस्य, करकलितकरवालकरणतर्पणप्रासतोमरभिण्डिपालप्रभृतिविविधायुधा यौधाः कुमा " रभवनमरुन्धन् । अथ निरुपमपराक्रमपाटवमदोत्कटो गन्धोत्कटतनयः स्वगृहानिर्गत्य निरवधिकरोषप्रसरः केसरीव हारिणयूथं तरणिरिव तमः स्तोमं दावदहन इत्र वनतरुषण्डं प्रलयपवन इव पर्वतनिवहं करिकलभ इव कदलीकाननं तत्क्षणेन क्षपयितुमात्मजिघृक्षागतमशेषं बलमारभत । आरम्भसमसमयमागत्यास्य जनयिता 'जात, नैवं कर्तव्यम् । स्थातव्यं हि निदेशे देशाधिपतेः । तस्योपसरेम परिसरम् । प्रज्ञापरिबर्हविरहिता हि पराक्रमा न क्रमन्ते क्षमाय । तदमीभिः सह गच्छेम राजभवनम् । अनुभ 8
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy