________________
८६
गद्यचिन्तामण
वे भाविनमर्थम्' इत्यभिदधान एव निवार्य तं यौधनिधनोद्यतमात्मजमात्मजन्मदिवसादारभ्यार्जितमशेषं वित्तमुपायनीकृत्य तेन सह नीति व कबधुर्गन्धोत्कटः काष्टाङ्गारस्यागारमयासीत् । प्रविश्य मणिमण्डपस्य मध्ये महति विष्टरे समुपविष्टमेनं ज्वलन्तमिव कोपदहनेन दारुणकोपचयपलायितपरिजनमकाण्डाविरचितनिद्राभङ्गविजृम्भितामर्षभीपणवपुषमिव केसरिणं भीतभीतः कथंकथमप्युपसृत्य तनयेन सह गन्धोत्कटस्तन्निकटे हाटकराशिममरेशनिशितशतकोटिशकलित सुमेरुशिखरसहचरं संनिधाप्य 'स ह्यतामयमपराधः शिशोः । दीयन्ताममुष्य प्राणाः' इति प्रणयकृपणमभाणीत् । काष्ठाङ्गारस्तु कारुण्यास्पृष्टहृदयः 'किमष्टापदेन ' इति प्रत्यादिष्टकुमारप्राणप्रणयनभणितिर्धरणीतलविनमितशिरसं कृपणवचनमुखरितवदनमतनुतरतनयस्नेहान्धं गन्धोत्कटम् 'गम्यताम्' इति सावज्ञं विसृज्य स - मक्षमवस्थितानारक्षकाध्यक्षान् 'अस्य पराक्रममदक्षीत्रस्य क्षेपीयः क्षपयतासूनू' इति सरोषमभाषत । तेऽपि तथेति तदाज्ञामञ्जलिबन्धेन प्रतीच्छन्तः प्रगृह्य कुमारमतित्वरितपदप्रचारप्रचलितभुवः प्रस्थातुं वध्यस्थानं प्रति प्रारेभिरे ।
अथ प्रतिहतवचसि प्रभूतविषादविषमूर्छालमनसि विस्मृत कर्तव्यवर्त्मनि सद्यः सद्म समासाद्य निजसुतविनिपातविजृम्भमाणदारुणशुचमविरलनिर्यदश्रुजलविलुलितदृशमश्रान्तविरचिताक्रन्दां सुनन्दाम् • अलं संतापेन । संस्मर पुरा चर्यार्थमागतेन तपोधनेन सविस्तरमुदीरि - तां कुमाराभिवृद्धिशंसिनीं कथाम् | अवितथवचसो हि मुनयः' इति सा - न्त्वयति समवगतसुतोदन्तप्रबन्धे गन्धोत्कटे, कटकवासिनि जने जनितानुशयेन 'राजते राजता काष्टाङ्गारस्य । कष्टमिदमकाण्डे विधिचण्डानिरालम्बा लस्य विलसितम् । अद्य निराश्रया श्रीः, निराधारा धरा, सरस्वती, निष्फलं लोकलोचनविधानम् निःसारः संसारः, नीरसा र
,